________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
端端端端器端茶器器凝器器鉴器器端端端端器端器端端
कुस्थो(न्यो) रत्नमयः स्तूपः, कुन्थुवद् वीक्षिताः परे । गर्भस्थेऽस्मिन् जनन्येति कुन्थु राख्यां पिताऽतनोत् ॥२॥ क्रमेण प्राप्ततारुण्यं, जापामाणिग्रहोत्सवम् । कुन्थु न्यस्याङ्गज राज्ये, सूरराइ व्रतमात्तवान् ॥ ३॥ चतुर्दशभिरुन्पन्नै रत्नैर्भरतभूतलम् । प्रसाध्य बुभुजे भोगान् , श्रीकुन्थुश्चक्रिणश्चिरम ॥ ४ ॥ स्वयम्बुद्धोऽपि लोकान्तिकैः सुररेत्य बोधितः । भव्योर्वी दानधाराभिरावर्षमभिवृष्य च ॥५॥ वैशाखकृष्णपश्चम्यां. विहाय तुषमुष्टिवत् । चक्रिभोगानुपादत्त, प्रव्रज्यां परमेश्वरः ॥६॥ चतुर्ज्ञानी विहारेणोद्यतेन विहरन् विभुः । प्रान्ते पोडशवर्षाणां, केवलज्ञानमासदत् ॥ ७॥ देवधर्मगृहं चक्रेऽर्हता धर्मदेशना । प्रबुद्धाः प्राणिनोऽनेकेभूवन् गणभृतोऽपि च ॥८॥ क्रमेण क्षीणकर्माशो, विहृत्य चिरमुर्वराम् । राधाकृष्णप्रतिपदि, सम्मेतेऽशिश्रयच्छिवम् ॥ ९॥ बाल्य-भण्डलि-चक्रित्व-श्रामण्येष्वभवन समाः। त्रयोविंशसहस्राणि, सार्द्धसप्तशतानि च ॥१०॥
इति:श्री मुद्रितऋषिमण्डल वृति पृष्ठाङ्क. ३० तः उद्धतं
इति श्री कुन्थुनाथचरित्रम् संपूर्णम्
४ देवाधिदेवतीर्थकर-श्री पार्श्वनाथजिनचरित्रम् जम्बूद्वीपे मेरुपार्श्वे, समभूतलपर्वतः। योजनानां नवसंख्यशतमध्ये ग्रहबजाः ॥१॥ ततः परमसंख्याता, यौजन्यकोटिकोटयः । उल्लचितेषु तेपर्ख सौधर्मेशानसदियौ ॥२॥
For Private and Personal Use Only