________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेनकथाणवः
श्रीकृन्धुनाथचरित्रम्
柴张张张举张张柴柴柴柴柴柴柴眾索张张张张张张张
क्रमेण प्राप्ततारुण्य, जातपाणिग्रहोत्सवम् । शान्ति न्यस्याङ्गजं राज्ये, पार्थिवोऽशिश्रयद् व्रतम् ॥६॥ चतुर्दशभिरुत्पन्नै रत्नैर्भरतभूतलम् । प्रसाध्य बुभुजे भोगान्, श्रीशान्तिश्चक्रिणश्चिरम् ॥७॥ स्वयम्बुद्धोऽपि लोकान्तिकः (क-) सुरैरेत्य बोधितः । भव्योर्वी दानधाराभिरावर्षमभिवृष्य च ॥८॥ ज्येष्ठकृष्णचतुर्दश्यां, विहाय तुषमुष्टिवत् । चक्रिभोगानुपादत्त, प्रव्रज्यां परमेश्वरः ॥ ९॥ युग्मम् ।। चतुर्ज्ञानी विहारेणोद्यतेन विहरन् विभुः। पौषशुद्धनवम्यति, केवलज्ञानमाप सः॥१०॥ देवधर्मगृहं चक्रे, प्रभुणा धर्मदेशना । प्रबुद्धाः प्राणिनोऽनेकेऽभूवन् गणभृतोऽपि च ॥ ११ ॥ क्रमेण क्षीणकर्मीशो, विहृत्य चिरमुर्वराम् । ज्येष्ठकृष्णत्रयोदश्यां, सम्मेतेऽशिश्रयच्छिवम् ॥ १२ ॥ बाल्य-मण्डलि-चक्रित्व-श्रामण्येष्वभवन् क्रमात् । पृथक पृथक सहस्राणि, वर्षाणां पञ्चविंशतिः ॥ १३ ॥ वर्षलक्षमतिवाद्य यः प्रभुः, सर्वमायुरनु मोक्षमासदत् । सोऽस्तु शस्तकृदपास्तपाप्मनां, वासवस्तवनगोचरीकृतः ॥१४॥
इति श्री मुद्रितऋषिमण्डलवृत्ति पृष्ठाङ्क २९ तः उद्धृतं
इति श्री शांतिजिनचरित्रम् संपूर्णम्
३ देवाधिदेवतीर्थकर-श्री कुन्थुनाथ चरित्रम् श्रीहस्तिनापुरे सूर-श्रीदेव्योस्तनयोजनि । चतुर्दशाद्भुतस्वमसूचितात्यन्तिकोदयः ॥१॥
॥११॥
For Private and Personal Use Only