________________
Shri Mahavir Jain Aradhana Kendra
***************
www.kobatirth.org
वर्षान्ते भाषिते ब्राह्मी -सुन्दयौं नाभिजन्मना । भवतीभ्यां वचो वाच्यं गत्वाऽदो बहलीपतेः ।। २६२ ॥ गजादवतरेतीशादेशमासाद्य ते गते । व्याप्तं वल्लीबितानेन, पश्यतः स्म न तं बने ॥ २६३ ॥ पश्चात्य प्रभोरग्रेऽथाहतुस्तत्र नो मुनिः । आस्ते तत्रैव सेत्युक्ते, ते गत्वोचतुरुच्चकैः ॥ २६४ ॥
गजादवतर भ्रातः !, तत्रस्थस्य न केवलम् । दध्यौ बाहुबली साछ्यौ, कथं कथयतो मृषा १ ।। २६५ ।। सर्वसङ्गपरित्यागवतो मे वाऽस्ति कुञ्जरः ? कुत्रत्यस्तु तदारोहः १ सीमा ग्रामं विना कुतः ? || २६६ ॥ ज्ञातं मानगजारूढं धिग्मां दुश्चिन्तिताग्रिमम् । वन्देऽथापि लधून भ्रातृनित्युक्त्वोत्पाटितः क्रमः ।। २६७ ।। तदा केवलमुत्पेदे गत्वा द्वसद्मनि । स नमस्तीर्थायेत्युक्त्वाऽऽसीनः केवलिपर्पदि ॥ २६८ ॥ अथान्यदाऽऽभिभृत्वाऽनांसि भूयांसि संस्कृतैः । भोज्यैन्यमन्त्रयद् भ्रातून्, क्षमाश्रमणपूर्वकम् ॥ २६९ ॥ प्रभुरप्यभ्यधादभ्याहृताधाकर्मदूषितः । राजराज ! राजपिण्डोऽप्यकल्प्योऽयं महात्मनाम् ॥ २७० ॥ तातेन सर्वथा त्यक्त इति दुःखार्त्त आर्यभौ । अत्रान्तरेऽवग्रहाणां स्वरूपं पृष्टवान् हरिः ॥ २७१ ॥ कियन्तोऽवग्रहाः स्वामिस्ते च पञ्चेत्यवक प्रभुः । इन्द्र - राइ - गृहपत्याद्या, वज्रयाह सोऽर्पितो मया ॥ २७२ ॥ विश्राणितो मयाऽयेष इत्याख्यद् भरतप्रभुः । स्वेच्छया साधवः सर्वे, मद्भूमौ विहरन्त्यथ ॥ २७३ ॥ दर्शिता मौलरूपस्य शक्रेण चक्रिणोऽङ्गुली । अष्टादिकामहस्तेने, तेन सेन्द्रोत्सवोऽभवत् ।। २७४ ।। अनादानेन चान्नस्य, विद्यमानं नरेश्वरम् । वीक्ष्योचे वासवश्चक्रिन् !, पूजयस्व गुणाधिकान् ।। २७५ ॥ स दध्यौ ते तु मुनयः आ ! ज्ञातं श्रावका अपि । वसनैरशनैश्चापि तेनैतानर्चयाम्यहम् ॥ २७६ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir