________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनकथा
व: ॥४ ॥
श्रीऋषमदिव चरित्रम्
सार्क चन्द्रयशःपन्त्येभस्थं तं वीक्ष्य युग्मिनः । विवदच्छेदमिच्छन्तः, स्वावज्ञां तत्पुरोऽवदन् ॥ ९७ ॥ सोऽपि नीतिमिमामेषां हकाराख्यां समादिशत् । मर्यादास्थायिनां तेषां, न व्यतीयुमहाहियः ॥ ९८॥ धनुर्नवशसान्युच्चः, प्रसूय युगल स तु । पल्यस्य दशभागायुः, सुपर्णेदपद्यत ॥ ९९ ॥ चक्षुष्मान् कुलकृच्चान्यश्चन्द्रकान्तापर्नवर्नृपः । पल्यस्यासङ्ख्यभागायुरुच्चाङ्गोष्टधनुःशती ॥१०॥ तामेव नीति नीतिज्ञो, दर्शयन्नपराधिनाम् । मृत्वा सुपर्णकुमारेऽगाद् राज्ये संस्थाप्य नन्दनम् ॥११॥ यशस्वीति तृतीयोऽभूत् , सुरूपापतिरीश्वरः। आनुपूयॊनपूर्वायुः, धनुःसप्तशताङ्गवान् ॥ १०२॥ मर्यादाच्छेदिनां कालदोषानीतिद्वयं दिशन् । हक्काराख्यां मकाराख्यामल्पानल्पापराधिनाम् ॥ १०३॥ मृत्वोदधिकुमारेऽगाद् राज्ये न्यस्य निजागजम् । चतुर्थोऽथाभिचन्द्रोऽभूत, प्रतिरूपापतिः पतिः ॥१०४॥ पूर्वोक्तायुर्वपुर्मानः, स सार्द्ध षड्धनुःशतम् । स्वायुर्दशांशे विन्यस्तपुत्रराज्योऽगमद् दिवम् ॥ १०५॥ धनूंषि षट्शतान्युच्चः, पञ्चमोऽथ प्रसेनजित् । चक्षुःकान्तापतिः पूर्वोक्तायुः प्रियङ्गुवर्णरुक् ।। १०६ ॥ धिकाराख्यतृतीयाया, नीतेः कर्ता महागसाम् । मृत्वा द्वीपकुमारेऽगात् , सनुसङ्कामितेन्दिरः ॥ १०७॥ साढेषुशतचापाङ्गः, कुलकृन्मरुदेवकः । श्रीकान्तेशश्च पूर्वायुय॑स्य राज्ये तनूद्भवम् ।। १०४ ॥ देवो द्वीपकुमारेऽभून्नीतित्रयप्रवर्तकः । सप्तमः कुलकुमाभिस्तत्पत्नी मरुदेव्यथ ॥ १०९ ॥ जम्बूद्वीपेत्र भरते, सुषमा-दुम्पमारके । एकोननवतिपक्षरुने स त्रुटिताङ्गके ॥ ११ ॥ आषाढायचतुर्थ्यामुत्तराषादागते विधौ । स जीवो वजनाभस्य, च्युत्वा सर्वार्थसिद्धितः॥१११ ॥
黎染染亲密亲密亲密亲密亲密密亲密亲密亲密亲密
॥
४
For Private and Personal Use Only