________________
Shri Mahavir Jain Aradhana Kendra
जैनकथार्णवः ॥ ३ ॥
www.kobatirth.org
सकृपाः सस्मितं प्राहुः साहसं भिषजामहो ! । कुपात्रमपि लोभेन, चिकित्सन्ति न तूत्तमम् ॥ ६७ ॥ विज्ञाततदभिप्रायो, वयस्यान् प्राह वैद्यसूः । सत्यमेतत् परं नास्ति, धनं मे साध्य - साधनम् ॥ ६८ ॥ कम्बलश्चन्दनं तैलं, लक्षपाकं पृथक् पृथक् । विलोक्यतेऽत्र तत्राऽऽस्ते तैलं मे लक्षपाककम् ॥ ६९ ॥ अमात्य - नृपपुत्राद्यैः प्रोक्तमन्यद्वयं पुनः । करिष्याम इति प्रोच्य, सर्वेऽगुर्वणिगापणे ॥ ७० ॥ लक्षद्वयेन गृह्णन्तचन्दनं कम्बलं च ते । वणिजाज्भाणि किं कार्य ?, तेऽपि साध्वर्थमादिशन् ॥ ७१ ॥ शिशूनामयो ! बुद्धिर्धर्मे नो तादृशी मम । श्रेष्ठिश्रेष्ठ इति ध्यात्वा, विना मूल्यमदाद् द्वयम् ॥ ७२ ॥
राग्याच लावा, सिद्धसौधान्गोऽभवत् । लात्वा समग्रसामग्री, ते जग्मुः श्रमणान्तिकम् ॥ ७३ ॥ भगवन्ननुजानीहि कुर्मस्ते रुक्प्रतिक्रियाम् । इत्युक्त्वाऽभ्यङ्गमङ्गस्य, सिद्धतैलेन ते व्यधुः ॥ ७४ ॥ कम्बलेनाऽनृतादङ्गान्निरीयुः क्रमयो वहिः । क्षुभितास्ते दयावद्भिर्निक्षिप्ता गोकलेवरे ॥ ७५ ॥ चन्दनालेपनं चक्रुरेवं द्विह्निः प्रयोगतः । त्वग्मांसास्थिगताः कीटा, निर्गता गात्रतो मुनेः ॥ ७६ ॥ संरोहिण्या वरौपध्या, सुवर्णवपुषं मुनिम् । विधाय क्षमयित्वा च, धन्यमन्या ययुर्गृहम् ॥ ७७ ॥ साध्वर्थकल्पितार्थेन, जिनचैत्यमचीकरन् । ते क्रमाद् व्रतमासाद्याच्युते कल्पेऽभवन् सुराः ॥ ७८ ॥ इतश्व जम्बूद्वीपस्य, विदेहे विजयेऽष्टमे । नगर्यौ पुण्डरीकियां, तीर्थकृत् वज्रसेनराट् ॥ ७९ ॥ तत्पत्नी धारिणी तस्या, वज्रनाभोदयः सुताः । पञ्च पञ्चमुखप्राणा बभृचुरच्युतात् च्युताः ॥ ८० ॥ युग्मम् ॥ वज्रसेनो जिनो, लोकान्तिकैरागत्य बोधितः । दानं दत्त्वा व्रतं लात्वा, क्रमाज्ज्ञानमवाप च ।। ८१ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
*ॐ* श्रीऋषभदेव चरित्रम्
॥ ३ ॥