________________
Shri Mahavir Jain Aradhana Kendra
जैन कथार्णवः
॥१०६॥
www.kobatirth.org
११ ॥
आगते च नौ भक्त्या, सा सुभोज्यं ददौ सती । तद्दृष्ट्वा तत्पतिः क्रोधात्, तद्दोषे कृतनिश्चयः ॥ ८ ॥ कोशात् खङ्गं समाकृष्य, जगाद तरुणीम्प्रति । कुलटे ! वद सत्यं मे, सम्बन्धः कोऽस्त्यनेन ते ॥ ९ ॥ तदा सा विस्मिता नारी, भविष्यत्कथनस्य तत् । वार्त्ती सर्वो मुनेस्तस्मै, कथयामास विस्तरात् ।। १० ।। किन्तु तस्य कुबुद्धेर्नो, विश्वासोऽभून्मनागपि । कर्षन्नेवासिमाचख्यौ मुनिं न्यत्कारयन् क्रुधा ॥ मुने ! वदाशु सत्यं मे वडवा प्रसविष्यते । किमियं तद्वचः श्रुत्वा, किशोरीं मुनिरुक्तवान् ॥ १२ ॥ निर्णयार्थ ततो दुष्टः, खड्गेनाश्वां व्यदारयत् । किशोरी च तदश्वा च, सीदन्त्यौ मृतिमापतुः ॥ १३ ॥ सुनिश्च स्वकृतेनैतदनर्थं सकलं विदन् । प्रायश्चित्तार्थमाश्वेवानशनं कृतवान् शुचा ॥ १४ ॥ पूर्व पञ्चाच्च संवीक्ष्य, फलाफलमथो वदेत् । ज्ञानी मुनिः प्रियं सत्य - मन्यथाऽनर्थ उद्भवेत् ।। १५ ।।
७६ श्री मानपिण्डकथा
सर्वलब्धियुतोऽसि त्वमित्येवमन्यसाधुभिः । स्तुतो गर्वेण लोकेभ्यो, मानपिण्डोऽभियाचनात् ॥ १ ॥ great मुनिरेकोऽभूत्, सैकदा हासतावितः । संलापे मुनिभिर्गर्वा – दुवाच चाचारमस्मरन् ॥ २ ॥ गुडमिश्रां घृतेनाक्तां, कल्ये सेवतिकामहम् । आनेष्यामि प्रभूतां चा, - वश्यं जानन्तु योगिनः ॥ ३ ॥ एवं कृतप्रतिज्ञोऽसौ प्रातर्गत्वेभ्यसद्मनि । सेवतिकां ययाचेऽसौ घृताक्तां गुडमिश्रिताम् ॥ ४ ॥ तस्यां सत्यामपि यावत्, कृपणा न ददाति सा । तदा गर्वाज्जगौ योगी, नेष्याम्यहमिमां ध्रुवम् ॥ ५ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्री मानपि
ण्डकथा
|॥१०६॥