________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
器端染器器器端端端端端盖號器端端端樂樂器蒸蒸蒸端器
जगाद वधिकः श्रेष्ठिन् ! छागोऽसौ पच्यते गृहे । चुहिकायामधिधित्य, जीरनास्त्यधुना तु सः ॥२२॥ संसारासारतां बुध्ध्या, निर्वदं प्राप्तवान् ततः । विश्व हृदये भूयो, मुनीन्द्रशरणं ययौ ॥ २३ ॥ चारित्रं च ततः सघो, गृहीत्वा श्रेष्टिपुङ्गवः आत्मकल्याणसिध्ध्ये स, यत्नवानभवभृशम् ।। २४ ।। यावन्न मुनिवाक्येन, प्रत्यक्षेण विवोध्यते । उपदेशात्मकेनाथ, तावन्मोहस्य नो क्षयः ॥ २५ ॥ संसारमीदृशं ज्ञात्वा, तत्रैव निरता भृशम् । यतन्ते नात्मने लोका, हन्त मोहो दुरत्ययः ॥ २६ ।। तन्नाशार्थ सदा लोकः, श्रोतव्यस्तु सदागमः । येनान्तर्लोचनस्याशु, भवेदुद्घाटनं शुभम् ॥ २७ ॥
७५ निमित्तकथकमुनिकथा अपृच्छन्मुनिमासाद्य, काचित्प्रोषितभर्तृका । कदामत्पतिरागन्ता, परदेशाद्रुतं वद ॥१॥ ज्योतिर्ज्ञानेन मुनिराडवाच तरुणीम्पति । पञ्चमिदिवसभर्ता, तवाऽऽगन्ता वियोगिनि ! ॥२॥ साऽतिहष्टमना नारी, पत्युरागतिवासरे । कृत्वाऽथ निजशृङ्गारं, पाकं च सरसं तथा ॥३॥ पत्युः स्वागतसामग्री, नीत्वा तस्थौ निजाङ्गणे । मार्ग मुहुर्मुहुस्तस्य, प्रेक्षमाणा च तद्दिने ॥४॥ यथोक्तावसरे गेहे, पतिं दृष्ट्वा समागतम् । सत्कारं परया भक्त्या, चकार शुभमानसा ॥ ५ ॥ दशां दृष्ट्वा पतिस्तस्याः, कुलटात्वमशङ्कत । लोकानां हि मतिः पूर्व, दुर्गिमनुधावति ॥ ६॥ किन्तु तस्याः परीक्षार्थ, तूष्णीं तस्थौ स दुर्मतिः । स्त्री प्रहृष्टा मुनेर्मार्ग, पश्यन्ती बहिरागमत् ॥ ७ ॥
स्याः परीक्षायाः, कुलटात्वमशहत । सत्कार परया भक्त्या.
For Private and Personal Use Only