________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
मेवः ॥१०५||
नागदत्तश्रेष्ठिकथा
张继聪能器器蹤器幾涨涨涨器端涨茶器紫器蒂錄器器茶器
तदृष्ट्वा स पुनः किश्चि-जहास मुनिपुङ्गवः । नीत्वा भिक्षां प्रतस्थौ च, शोचन श्रेष्टिधियं मुहुः ॥ ७॥ अथ श्रेष्ठी नागदत्ता, स्वापणे गतवान् पुनः । उद्घाय्य च कपाटं स, स्वासने समुपाविशत् ॥ ८॥ वधिकस्य करान्मुक्या, छागलस्तत्क्षणो गृहे । श्रेष्ठिनः प्रविवेशाशु, प्राणरक्षणकाम्यया ॥९॥ तस्माद्याचितवान् पश्चा-द्वधिक छागलं निजम् । अथवा तस्य मूल्यं स, यल्लोकेचितं मतम् ॥१०॥ वधिकाय स निष्काश्य, प्रादाच्छेष्टी गृहादजम् । भूयो मुनिः स तत्रैव, गच्छन् प्राप्तो विधेर्वशात् ॥ ११ ॥ निर्दयत्वं विलोक्यास्य पुनरेव स्मितं मुनिः। चकार नागदत्तस्तद्, दृष्ट्वा सन्देहमाप्तवान् ॥ १२ ॥ उपाश्रये ततो गत्वा, मुनेः पार्थे जगाद च । वारत्रयं मुने! कस्मा-अहसे त्वयका वद ॥ १३ ॥ ततो शानी मुनिस्तस्य, कारणं सकलं जगौ । मोहग्रन्थिविभेदाय, नागदत्तस्य श्रेष्ठिनः ॥ १४ ॥ कारुस्त्वया पुराऽऽदिष्टो, हर्म्यस्य रञ्जनाय यत् । किन्तु सप्त दिनान्येव, तवायुरवशिष्यते ।। १५ ॥ स्मितं कृतं मया तस्मात , यदल्पायुर्जनः स्वयम् । गृहरूपं चिरस्थायि, कर्तुं मोहात्समीहते ।। १६ ॥ यत्पुत्रमूत्रितस्थाल्यां भोजनं कृतवानसि । स पुत्रस्तव भार्याया, जारः पूर्वभवेऽभवत् ॥ १७ ॥ तदृष्ट्वाऽपि स्मितं मेऽभूद्-यल्लोकः कीदृशः कुधीः। मूत्रं स्वभार्याजारस्य, पिवत्यादरतोऽघृणः ॥१८॥ निष्काषितस्त्वया यश्च, छागलः स्वापणात्सहि । पूर्वजन्मपिता तेऽस्ति, विद्धि सर्वानृतं वचः॥ १९ ॥ तदृष्ट्वा सहजं हासं, कृतवानहमञ्जसा । पितरं शरणाऽऽयातं, बलान्निासारयत्यसौः॥ २० ॥ तच्छुत्वाऽनागदत्तोऽसौ, सहसोत्थाय विस्मितः । वधिकस्य गृहं गत्वा, ततश्छागमयाचत ॥ २२ ॥
| ॥१०५॥
For Private and Personal Use Only