________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
*महेश्वरदत्त
कथा
र्णवः ॥१०४
张张张张张张张张密密落落落落染器张密婆婆举密密举荣
लोभाभिभूतस्तत्तातः, प्रभूताऽऽरम्भ सम्भवः, । मृत्वा तत्रैव देशेऽभूत् , सेरिभो ही ! (हा!) भवो(वे)द्भवः ॥२॥ तदाऽत्तिबहुला मृत्वा, बहुलाऽप्यभवत् शुनी । गागिलाऽऽख्या महेश्वरदत्तस्याऽऽस्ते प्रिया प्रिया ॥३॥ गृह[रहः स्थैकाकिनी रेमे, समं जारेण साऽसती । स्त्रीणामेकाकिनीनां हि, कामानिर्वा[-मोऽङ्गे वा-]धतेऽधिकम् ॥ रममाणां प्रियां भर्ता, जारेण सममन्यदा । अन्यद्वारागतोऽकस्मात् ददर्शाहो हि पच्यते ॥५॥ तौ सस्तकुन्तलौ त्रस्तनेत्री, कम्प्रवपुलतौ । सोऽपश्यद् रतभीत्याऽऽत्तपरावर्तोसरीयकौ ॥ ६ ॥ धृत्वा केशेषु जारं स, भल्लूकं व्याधवत् क्रुधा । चपेटाभिरिवाविष्ट. मान्त्रिकस्तमद्वयत् ॥७॥ ममर्द निर्दयं पद्भां, कुलाल इव मृत्तिकाम् । यष्टिभिः कुकुरमिव, सापराधमताडयत् ॥ ८॥ प्रणश्यामृतो जारः, किञ्चिद् गत्वाऽपतद् भुवि । मूल्ऽकार्ष मुमूर्षुः किं ?, कण्ठस्थासुरचिन्तयत् ॥९॥ मृत्वा स्वबीज एवासी, पुत्रभूयमवाप्तवान् । कालेन गाङ्गिला पर्नु, सुषुवे सुखवेदनम् ॥१०॥ तमात्मजात मन्वानः, श्रेष्ठी कंण्डमलालयत् । वर्द्धमानः कूर्चकचाऽऽकर्षका) बभूव सः॥११॥ ततश्च पुश्चलीदोप, पुत्रप्रेम्णा महेश्वरः । गाङ्गिलाया विसरमार, प्रायः स्त्रीवाद् गृही ॥ १२ ॥ अथाऽऽयाते पितुर्मृत्युवासरावसरोत्सवे । सोऽक्रीणात् पितृजीव तं, महिषं मूर्खशेखरः ॥ १३ ॥ तं हत्या महिष मांस, क्रोडस्थकुण्डमूनवे । ददानोऽश्नाति श्रेष्ठी स्म, धिगज्ञानं हि देहिनाम् ।। १४ ॥ कुकुरी बहुलाजीवः, समांसं पतिकीकसम् । कटकटिति कुर्वाणा, नृत्यत्पुच्छा चर्व च ।। १५ ॥ इतश्च कश्चिदायातस्तद्गेहे मासपारणे । भिक्षार्थ भिक्षुद्राक्षीद् , ज्ञानेनैतद् विरूपकम् ॥ १६॥
॥१०४॥
Fer Private and Personal Use Only