________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
णव: ॥१०॥
श्रीशीतलाचार्यकथा
張懿跪涨涨涨涨涨涨藥器器器器端盖蒂旅游张號继器最
एत्य राजगृहं वीरश्चैत्ये गुणशिले स्थितः । देशनान्ते प्रभुम् नत्वा, पप्रच्छ श्रेणिकस्त्विदम् ॥१०॥ स्वामिस्ते गौतमादीनां, शिष्याणां शीलशालिनाम् । चतुर्दशसहस्राणां, को दुष्करतपःक्रियः ॥११॥ स्वाम्याह राजन् ! धन्यपिः, सर्वेषग्रतपा भृशम् । एतत् श्रुत्वा प्रभुम् नत्वाऽऽगत्य धन्य नृपोऽनमत् ॥ १२ ॥ धन्यः सुलब्धजन्मासि, यत् त्वां वीरजिनः स्वयम् । एवं वर्णयतीत्युक्त्वा नत्वाऽगात् श्रेणिको गृहम् ॥ १३॥ वर्ण्यमानोऽप्यसावेवं, नवोत्कर्षमगात् मनाक । पालयामास चारित्रं, नवमासानखण्डितम् ॥ १४ ॥ मासिक्या संलेखनया, कालं कृत्वोदपाद्य(द)सौ । सर्वार्थसिद्धे चोद्धत्य, विदेहे शिवमाप्स्यति ॥ १५ ॥ इति श्रीऋषिमण्डलप्रकरणवृत्तितः उद्धता धन्यमहर्षिकथा संपूर्णा.
७० श्री शीतलाचार्यकथा श्रीहास्तिनपुरे वज्रसिंहः सिंहबलो नृपः । सौभाग्यमञ्जरी तस्य, प्रिया पुत्रस्तु शीतलः ॥ १ ॥ त्रैलोक्यसुन्दरी पुत्री, सा काञ्चनपुरप्रभोः । कञ्चनप्रभराजस्य, यौवने परिणायिता ॥२॥ निर्विष्णः काम-भोगेभ्यः, कुमारः शीतलोज्यदा । प्राब्राजीत् स्थविरोपान्ते, सूरिश्वासीद् बहुश्रुतः ॥३॥ आसंस्त्रलोक्यसुन्दर्याश्चत्वारः सूनवः क्रमात् । तेषां कथान्तरे नित्यं, सा वर्णयति शीतलम् ॥ ४ ॥ यथा वो मातुलो राज्यनिःस्पृहः शिश्रिये व्रतम् । कालो यात्येवमन्येास्तत्रेयुः स्थविरर्षयः ॥५॥ निशम्य तदुपान्ते तेऽसारतां संसृतेर्भृशम् । प्रबुद्धा जगृहुर्दीक्षां, क्रमाद् जाता बहुश्रुताः॥६॥
॥१०१॥
For Private and Personal Use Only