________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रेत्य न ज्ञायते किं स्यादेतच्च फलमैहिकम् ? । सम्बुद्धश्चावधिज्ञानं, लेभे कर्मक्षयोद्भवम् ॥ १४ ॥ सर्वकामविरक्तेन, भाव्यं भोः ! खलु देहिना । बभाषेऽध्ययनं चैतद्, राजर्षिदेविलासुतः ॥ १५ ॥ विरक्तां तां सुतां दत्त्वा, संयतीभ्यः स्वयं नृपः । उत्पाद्य केवलं सिद्धोऽर्द्धसङ्काशाऽपि निवृता ॥ १६ ॥ इति श्रीमुद्रित-ऋषिमण्डलप्रकरणवृत्तितः उद्धता देविलासुतर्षिकथा संपूर्णा,
६९ श्री धन्यमहर्षिकथा बभूव पुर्यां काकन्यां, जितशत्रुनृपाग्रणीः । सार्थवाहवधूस्तत्र, भद्रानाम्न्यस्ति विश्रुता ॥ १॥ धन्याख्योऽभूद् यथार्थोऽस्याः, मूनुरन्यूनदीप्तिमान् । कन्या द्वात्रिंशतं मात्रोद्यौवनः परिणायितः ॥ २ ॥ मात्रा द्वात्रिंशदावासा, द्वात्रिंशदायसंयुताः । तदर्थ कारिता भोगान् , भुङ्क्ते तदुपरि स्थितः ॥ ३ ॥ इतश्च समवासापति , श्रीवीरस्तत्पुरो बहिः । वन्दनाय(या)ययौ धन्य, उद्यद्रोमाञ्चकञ्चुकः ॥ ४ ॥ धर्म श्रुत्वाऽऽसवैराग्योऽपृच्छद् व्रतकृते प्रसूम् । राजार्पितराज(ज्य)चिह्नस्फीत्या धन्योऽश्रयद् व्रतम् ॥ ५॥ प्रताहेऽपि प्रभु नत्वा, जग्राहोग्रमभिग्रहम् । षष्ठपारणकं यावजीवमाचाम्लतोऽस्तु मे ॥६॥ ग्राह्या भिक्षा न संसृष्टाऽसंसृष्टाऽस्तु तथोज्झिता । इत्युग्रतपसाऽऽत्मानं, भावयन बिजहार सः ॥ ७॥ भक्ताप्तिश्चेत् कथञ्चित् स्यात् , नाप्तिस्तस्याम्भसा पुनः । पठन्नेकादशाङ्गानि, सेहे क्षुत्-तृट्परीषहम् ॥ ८॥ इत्युग्रतपसाऽत्यर्थ, क्रशीयान् सोऽभवत् मुनिः । न मनागपि दीनत्वं, तथापि क्वापि जग्मिवान् ॥ ९॥
曼聯蒸器端藥器端籌器端藥器器器端端器樂器端器器端。
For Private and Personal Use Only