________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
亲亲密照张密密来港路婆婆塞盛涨涨涨涨聯柴柴榮盛
प्रपद्य तत् तया दीक्षा, गृहीता सूरयोऽप्यथ । तस्थुजवावलक्षीणा, गणं प्रस्थाप्य तत्र तुनि ॥ ३१ ॥ पुष्यचूला नृपावासाद्, भक्तमानीय यच्छति । गुरुभ्यः शुभभावेनोत्पेदेऽस्याः केवलं क्रमात् ।। ३२ ॥ प्रांकप्रवृत्तं न विनयं, भनक्ति किल केवली । कालोचितं मनश्चिन्त्य, भक्तं तेभ्यः स्म यच्छति ॥ ३३ ॥ श्लेष्मन्नं श्लेष्मणः काल इत्याद्यवसरोचितम् । भक्तं हृचिन्तित बत्से !, वेत्सि कि? सूरयोऽवदन् ।॥ ३४ ॥ अन्ये त्वाहुर्घने वर्षल्यानीतेऽन्नेऽथ तेऽभ्यधुः । किमेतत् साधि ! साऽहाऽऽगां, प्रासुकाम्भसि सूरयः! ॥३५॥ प्रासुकापासुकविधि, वेत्सि वत्से ! घने कथम् ? । साऽऽहातिशयतः कीदृग्? , स तु केवललक्षणः ॥ ३६॥ केवल्याशातना चक्रे, हा ! चक्रुः सूरयोऽधृतिम् । सोचे चोत्तरतां गङ्गा, केवलं भावि वोऽपि हि ॥ ३७ ॥ उत्तस्थुईतमाचार्याः, को लाभे ह्यलसायते ? । गङ्गायां नावमारूढाः, स्वयं सजीकृतां जनैः ॥ ३८ ॥ यत्रान्निकासुताऽऽचार्यास्तस्थुः कोणे तथान्तरा । तत्र मजति नौः क्षिप्ता, जनैश्चोत्पाटय तेऽम्भसि ॥३९॥ सुरेणाम्भस्यधःशूलं, दधेऽस्य प्राग्भवारिणा । तेन विद्धः शुभध्यानात् , केवलज्ञानमाप सः ॥ ४० ॥ सिद्धश्च निमितो देवैमहिमा तस्य वर्मणः । प्रयागं नाम तत् तीर्थ, पप्रथे तत्र विश्रुतम् ॥ ४१॥ कलेबरं जलचरैः, खाद्यमानं तदम्भसि । गङ्गाकूले क्वचित् लग्न, प्रेयमाणं जलोमिभिः ॥४२॥ देवाद् दक्षिणदंष्टायां, पाटले/जमाविशत् । भिवा करोटिं तद् जज्ञे, शाडूवलः पाटलिद्रुमः ।। ४३ ॥ तेनोपलक्षिते स्थाने, पाटलीपुत्रपत्तनम् । उदायिभूभुजा न्यस्त, कूणिकस्य पितुः शुचा ॥ ४४ ॥
崇器带张举张举张张带带带韶關諾器器毕杀柴柴柴弟染整
For Private and Personal Use Only