________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
णवः ॥९६॥
श्रीअनाथीमुनिकथा
张继聯強強強強茶器等茶幾號路第晓的除強聯涂装
स एवं मुनिना प्रोक्तः, सुसम्भ्रान्तः सुविस्मितः । श्रुत्वेत्यश्रुतपूर्व नद्, वचश्चोवाच पार्थिवः ॥१२॥ हस्तिनोऽश्वा मनुष्या मे, पुरमन्तःपुरं च मे । भुजे मानुष्यकान् भोगाना-जैश्वयं च मेऽधिकम् ॥ १३॥ सम्पत्प्रकर्ष ईदृक्षे, सर्वकामा(कर्मा र्पणक्षमे । कथं भवाम्यनाथोऽहं !, मा भदन्त ! मृषा वद ॥ १४ ॥ मुनिराह नार्थ पृच्छां(प्रोच्छां, प्रोत्यां वा), वेत्स्यनाथस्य पार्थिव ! । यथा घनाथो भवसि, सनाथस्य(श्च)नराधिप! (2)॥ राजन् ! कथयतः शृण्वव्याक्षिप्तेन हुदा मम । यथा नाथो भवेत् प्राणी, यथा प्रवर्तितं मया ॥ १६ ॥ अत्र पूरस्ति कौशाम्बी, पुराणपुरमेदिनी । ममाऽसीद् जनकस्तत्र, प्रभूतधनसञ्चयः ॥१७॥ वयसि प्रथमे राजस्तदानीं वेदनाऽतुला । बभूव सर्वगात्रेप, दाप (हः) स्वाघोद्भवो मम ।। १८॥ शस्त्रं यथा (यथात्रास्त्र) महातीक्ष्णं, शरीरविवरान्तरे । आपीडयेदरिः क्रुद्ध इत्थं मे वेदनाऽभवत् ॥ १९ ॥ त्रिकं ममाऽऽन्तरेच्छा चोत्तमाङ्गं पीडघते भृशम् । इन्द्राशनिसमा घोरा वेदनाऽऽसीत् तदा मम ॥ २० ॥ उपस्थिता ममाचार्या, विद्या-मन्त्रचिकित्सकाः । अघीताः शास्त्रकुशला, मन्त्र-मूलविशारदाः॥२१॥ ते मे चिकित्सा कुर्वन्ति, चतुष्पादां यथाहितम् । मोचयन्ति च नो दुःखात् , तदेषाऽनाथता मम ।। २२ ॥ सर्वसारमपि पिता, मदर्थ दत्तवान् परम । न मोचयति दुःखाच्च, तदेषाऽनाथता मम ॥२३॥ मातापि मे महाराज !, पुत्रशोकादिता परम् । न मोचयति दुःखाच(मे दुखं,-खात् ), तदेषानाथता मम ॥२४॥ ज्येष्ठाः कनिष्ठाश्चैकोदरोद्भवा मे सहोदराः । न(वि)मोचयन्ति(नो)दुःखाच्च(त् ), तदेषाऽनाथता मम ॥ २५॥ ज्येष्ठाः कनिष्ठा मे राजन् !, भगिन्यत्रैकमातृकाः । विमोचयन्ति नो दुःखात् , तदेषानाथता मम ॥ २६ ॥
॥१६॥
For Private and Personal Use Only