________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जनकथा
श्रीसंयतराजर्षिकथा
॥९५॥
विहरन् संयतं तत्र, वीक्ष्यपिरिदमुक्तवान् । यथा ते दृश्यते रूपं. प्रसन्नं च मनस्तथा ॥ २१॥ पुनः प्रपन्छ किनामा ?, को गोत्रोऽर्थाय कस्य वा ? । माहनः(न !) सेवसे बुद्धान् ?, विनीतो वोच्यसे कथम् ? ॥ सोऽप्यूचे संयताख्योऽह, तथा गोत्रेण गौतमः । विद्याचरणयुक्ता मे, गुरखो गर्दभालयः ।। २३ ॥ सोऽपृष्टोऽप्याख्यदज्ञान, विनयं चा(वा)क्रियां क्रियाम् । चतुर्भिः स्थानकैरेभिर्म यज्ञाः किं ब्रुवन्ति भोः ! ॥२४॥ इत्याविरकरोद् बुद्धो, ज्ञातकः परिनिर्वृतः । विद्या-चरणसम्पन्नः, सत्यः सत्यपराक्रमः ॥ २५ ॥ पतन्ति नरके घोरे, येऽसत्प्ररूपका नराः [ये चासत्यप्ररूपकाः । निषेव्याया॑ धर्ममार्य[-र्य!], दिव्यां गच्छन्ति सद्गतिम्।। म[मायोक्तं सर्वमेतत् तु, मृपाभाषा निरर्थका । संयच्छन्नेव तिष्ठाम्युपाश्रये यामि गोचरे ।। २७ ।। सर्वेऽमी विदितास्ते मेऽनार्या मिथ्यादृशो यथा । जानामि सम्यगात्मानं, विद्यमाने भवान्तरे ॥ २८ ॥ पुनस्तं संयतोऽपृच्छत्, प्रेत्य जानासि तत् कथम् ? । उत्कृष्टायुमहाप्राणे, स ऊचे प्राग्भवेऽभवम् ।। २९ ॥ विमानाद् ब्रह्मलोकाख्यात्, च्युत्वाऽहं मनुजोऽभवम् । यथा तथाऽऽत्मनोऽन्येषां, जानाम्येवायुरादिकम् ॥३०॥ नानारुचि च छन्दं च, संयतः परिवर्जयेत् । अनर्थाश्चापि व्यापारान् , विद्यामित्यनुसञ्चरेः [२] ॥ ३१॥ निवतः[]परमन्त्रेभ्यः, प्रश्नादिभ्यस्तथा पुनः । उच्छ्रितोऽहो ! अहोरात्रं, विद्वानिति तपश्चरेः ॥ ३२॥ क्षत्रियस्तेन पृष्टोऽवगायुः पृच्छसि यच्च माम् । तत् प्रादुष्कृतवान् बुद्धस्तज्ज्ञानं जिनशासने ॥ ३३ ॥ सक्रियां रोचयेद् बीरो, वर्जयेच्चाप्यसत्क्रियाम् । सद्दृष्टया दृष्टिसम्पन्नो, धर्म सेवस्व दुश्वरम् ॥ ३४ ॥ उपदिश्यैतदखिलं, क्षत्रियः संयतं मुनिम् । स्थिरीकर्तुं पुनः पूर्वनरोदाहरणान्यवक् ॥ ३५ ॥
॥९५॥
For Private and Personal Use Only