SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा श्रीसंयतराजर्षिकथा णवः ॥९४ 张继游游游跳跳號號绕绕绕绕绕绕绕绕密密密密密密染染 इतश्च दैवात् तत्रैयुरध्वखिन्ना महर्षयः । तान् निरीक्ष्य भयभ्रान्तौ, भृगुपुत्रौ पलायितौ ॥२३॥ एक वटद्रमारूढौ, मध्याह्ने मुनयोऽपि हि । गृहीतशुद्धपानानास्तत्रैवैयुविधेर्वशात् ॥२४॥ विश्रम्य क्षणमेकान्ते, विधिवद् भोजन व्यधुः । आरूदौ पश्यतस्तौ तु, शुद्धं भक्तं न चाऽऽमिषम् ।। २५ ॥ ततस्तौ चक्रतूरूहापोहं क्वापीदृशा दशा । दृष्टा आसन्नथोत्पेदे, पागजातिस्मृतिरेतयोः ॥ २६ ॥ प्रबुद्धौ तान् मुनीन् नत्वाऽध्यातौ पित्रोरुपान्तिकम् । प्रबोध्य पितरौ ताभ्यां, सार्द्ध जगृहतुव्रतम् ।। २७ ॥ महिण्या बोधितो भूभृदेवं ते सुहृदोऽपि षट् । प्रव्रज्य केवलज्ञान, प्राप्य प्रापुः क्रमात् शिवम् ॥ २८ ।। उत्तराध्ययनचतुर्दशाध्ययनतस्तयोः । प्रबोध(ध्य)वाक्यविस्तारो, ज्ञेयो नोक्तोऽत्र गौरवात् ।। २९ ।। इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धता श्री षणमित्रपिंकथा सम्पूर्णा ६३ श्री संयतराजर्षिकथा श्रीकाम्पील्यपुराधीशः, संयताख्यो नृपोऽभवत् । प्रतापतपनाऽऽक्रान्तपृथुप्रत्यर्थिपार्थिवः ॥१॥ मृगव्यां स गतोऽन्येधुर्गजाश्व-रथपत्तिभिः । परीवृतश्चतुर्दिक्षु, नृत्यबाजिगतः स्वयम् ॥ २॥ हयारूदोऽवधीद् भूपः, केसरोद्यानगान् मृगान् । मन्यमानः कृतार्थ स्वं, भयत्रस्तांस्तपस्विनः ॥३॥ अथ तत्र नृपोऽद्राक्षीद्, धर्मलीनं तपोधनम् । द्रुमाकीर्णमण्डपस्थं, स्वाध्याय-ध्यानबन्धुरम् ॥ ४॥ अश्वारूढोऽवधीत् तत्र, मुनिपार्श्वगतान् मृगान् । हतांस्तत्राऽऽगतोऽद्राक्षीत् , मुनीन्द्रं च महीपतिः॥५॥ 聯张晓除密密密密部落蒂蒂器鉴際路路路路路带带张晓 ॥९४॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy