________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
श्रीमृगापुत्र
कथा
णेवः ॥९१॥
张馨號密器鉴張張器整器器器架露體露器器
तथा महान्तमध्वानं, योऽपाथेयः प्रपद्यते । दुःखी भवत्यसौ गच्छन् , क्षुधा-तृष्णाऽभिपीडितः ॥ १२ ॥ यस्तु महान्तमध्वानं, सपाथेयः प्रपद्यते । सुखी भवत्यसौ गच्छन् , क्षुधा-तृष्णाविवर्जितः ॥ १३॥ याति धर्ममकृत्वैवं, योमुत्र सोऽसुखी भवेत् । कृत्वा धर्म पुनर्याति, सोऽल्पकर्मा सुखी भवेत् ॥ १४ ॥ स्यात् प्रदीप्ते[स]यथा गेहे, तस्य यस्तु पतिर्भवेत् [भवेत्पतिः] । उद्धरेत् सारभाण्डानि, निस्सारं सर्वमुज्झति ॥१५॥ एवं लोके प्रदीप्तेऽस्मिन् , जरया मरणेन च । आत्मानं तारयिष्यामि, संसाराद् युष्मदाज्ञया ॥ १६ ॥ तं माता-पितरोऽवोचन् , श्रामण्यं पुत्र ! दुश्चरम् । गुणानां तु सहस्राणि, धार्याणि स्युर्महर्षिभिः ॥ १७ ॥ समता सर्वभूतेषु, तत्र मित्रेषु शत्रुषु । प्राणातिपातविरतिः, कर्त्तव्याऽत्यर्थमाभवम् ॥ १८ ॥ सर्वदाऽप्यप्रमत्तेन, मृपावादविवर्जनम् । सत्यं वाच्यं न चादत्तमुपादेयं तृणाद्यपि ॥ १९ ॥ ब्रह्मचर्य त्रिधा धार्य, स्मार्या नार्या न सङ्गमाः। धन-धान्य-हिरण्यादिवर्जनीयः परिग्रहः ॥२०॥ रात्रौ चतुर्विधाहारस्त्याज्यो धार्यों न सन्निधिः । सर्वारम्भपरित्यागो, ममताऽत्र न कुत्रचित् ॥ २१ ॥ क्षुत्-तृष्णा-दंश-मशक-शीतोष्णाद्याः परीषहाः । दुश्चरा याचनावृत्तिलब्धशुद्धानभोजनम् ॥ २२ ॥ कापोतीया पुनर्वृत्तिः, कचलोचोति दुश्चरः । यावजीवमविश्रामो, धार्यों गुणभरोऽन्वहम् ॥ २३ ॥ व्योमगङ्गाप्रतीपोग्रस्रोतोवद् दुस्तरो भृशम् । बाहुभ्यां सागर इव, तरितव्यो गुणोदधिः ॥ २४ ॥ बालुकाकनलाहारनिरास्वादेऽत्र संयमे । एकान्तदृष्टयाऽहिरिवासिधारागमनं भवेत् ॥ २५ ॥ चर्वयितव्या मदनदन्तैलोहमया यवाः । यथा चाग्निशिखा दीपा, पातुं भवति दुष्करा ॥ २६ ॥
॥९॥
For Private and Personal Use Only