________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९ श्री चिलातीपुत्रकथा क्षितिप्रतिष्ठिते द्रङ्गे, यज्ञदेवाभिधो द्विजः । एकोऽभूत् पण्डितंमन्यो, जिनशासननिन्दकः ॥१॥ सोऽन्यदा निर्जितो वादे, गुरुभिव्रतमग्रहीत् । देवताबोधितस्यास्य, सम्यक् परिणतं च तत् ॥ २ ॥ परं त्यजेद् जुगुप्सां नोपशान्तः स्वजनोऽखिलः । प्रियाऽदात् कार्मण(णां)प्रेम्णा, तस्मै वश्यो ममास्त्विति ॥३॥ ततो मृत्वा सुरो जज्ञे, साऽपि निर्वेदतो व्रतम् । लात्वाऽनालोचिता चैव, मृत्वोत्पन्ना सुरालये ॥ ४ ॥ इतश्च धननामाऽऽसीत् श्रेष्ठी राजगृहे पुरे । चिलात्याख्या मुख्यचेटी, चेटीकोटीषु विश्रुता ॥५॥ तस्याः कुक्षौ ततश्युत्वोत्पेदे जीवो द्विजस्य सः । जुगुप्सातोऽभिधा तस्य, चिलातीपुत्र इत्यभूत् ॥६॥ तत्रैव श्रेष्ठिनः पञ्चपुत्रोपरि दिवश्युता । स एव ब्राह्मणीजीवः सुंसुमाख्याऽभवत् कनी ॥७॥
चेटीसुतः स एवास्याः, कल्पितो बालधारकः । कुचेष्टां श्रेष्ठिना दृष्टः, कुर्वाणोऽस्या भगादिषु ॥ ८॥ निर्वासितो ह्ययोग्यत्वात् पल्ली सिंहगुहां गतः । सुभगत्वात् निजोपान्ते, पल्लीनाथेन रक्षितः ॥९॥ पल्लीशोऽभूत् मृते तस्मिन् निस्त्रिंशोऽग्रप्रहार्यसौ। प्रोक्तास्तेनाऽऽत्मनश्चौरा, यामो राजगृहं पुरम् ॥१०॥ धनश्रेष्ठिश्रियस्तत्र, युष्माकं मम सुसुमा । ततो पतन्नकस्मात् ते, रात्रौ तच्छेष्ठिनो गृहे ॥११॥ दत्त्वाऽपस्वापिनी तेषां, तद्धनं सुसुमां च ते । आदाय कथयित्वा स्वं, प्रति पल्ली प्रतस्थिरे ॥ १२ ॥ आरक्षकान् धनोऽवोचद् , युष्माकं वालितं धनम् । कन्या ममेति तत्पृष्टे, सपुत्रस्तरधावत ॥ १३ ॥
For Private and Personal Use Only