________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेन कथा
वः ॥८८॥
श्रीमेतार्यमहर्षिकथा
整张张聯華茶鉴茶茶茶鉴茶鉴茶张继器蒂蒂蒂蒂蒂蒂染影
पुरेऽस्मिन् विहरन् सोऽगात्, स्वर्णकद्गृहमन्यदा । स श्रेणिकजिना थे, कुरुते काञ्चनान् यवान् ॥ ७० ॥ त्रिसन्ध्यं परिपाट्यारीत्यर्हन्तं राह यवैर्नवैः । अष्टोत्तरशतैस्ते तु, तेन निष्पादितास्तदा ॥ ७१॥ भिक्षा तदर्थ नानीतोदिते स्वर्णकृताऽपि हि । तदर्थ प्राविशद् वेश्माभ्यन्तरं स्वर्णकृत् स्वयम् ॥ ७२ ॥ गलितास्ते यवभ्रान्त्या, काञ्चनाः क्रौञ्चपक्षिणा । पप्रच्छ बहिरायातस्तत्सम्बन्धमसौ मुनिम् ।। ७३ ॥ स्वया परेण वा केन, वद ! मे यवा हृताः ? । स तत्करुणया जाननप्याचष्टे न किश्चन ॥ ७४ ॥ राज्ञोर्चावसरो जज्ञेऽद्यास्थिरखण्डान्यहं क्रिये । इति भीत्या स पप्रच्छ, मुनिरूचे न तत् पुनः ।। ७५ ॥ ततो रुषाऽवाइँण, शीर्षावेष्टोऽर्पितो मुनेः । तथा यथा दृशोर्गोलौ, निर्गत्य पतितौ भुवि ॥ ७६ ॥ निश्चलारमा महात्माऽसौ, ध्यानात् नाप्यचलत् तथा । अन्तकृत्केवली भूत्वा, सिद्धिसौधाग्रमाप च ॥ ७७ ॥ स्फोटथमानादथो काष्ठादेकं खण्डं गलेऽलगत् । क्रौञ्चस्योत्पत्य ते तेनाखिला वान्ता यवा भिया ॥ ७८ ॥ हाहाकारपराः पौरा, मृत ते वीक्ष्य चाक्षतान् । यवानाचुक्रुशुः पाप्मन् !, स्वर्णकृत् ! किं कृतं त्वयां ? ॥ ७९ ॥ दधाविरे वधायास्य, ज्ञातव्यतिकरा नराः । उपाददे सतन्त्रोऽसावनन्योपायतो व्रतम् ॥ ८॥ धर्मलाभं कलादोऽदाद् , राज्ञे स्मित्वा नृपोऽवदत् । क्वथिष्यसे कटाहे रे !, चेत् त्यक्ष्यसि व्रतं क्वचित् ॥८॥ इत्थं मेतार्यवत् कार्यमार्यैर्ध्यानस्थिरं मनः । शश्वदानन्दमाकन्दकन्दलोमेदसिद्धये ॥ ८२ ॥
इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धता श्रीमेतार्यमहर्षिकथा संपूर्णा
॥८८॥
Fer Private and Personal Use Only