________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जन कथा
वर्णवः
श्रीमेतार्यमहर्षिकथा
॥८६॥
श्रियाऽभविष्यतामेवं, शोभमानौ सुतौ मम । तदिदानीममुं हन्मि, येन स्यादीप्सितं मम ॥ ११ ॥ गवेषयति छिद्राणि, प्रत्यहं प्रियदर्शना । राज्ञः सागरचन्द्रस्य, वधैककृतनिश्चया ॥ १२ ॥ प्रेषीत् सूदाय सन्देशं, बुभुक्षावान् नृपोऽन्यदा । कल्यवत्तों मम कृते, प्रेष्यः प्रेष्यादिपाणिना ॥१३॥ चेटीहस्तेऽर्पितस्तेन, मोदकः सिंहकेसरः । किमेतदिति पप्रच्छ, सम्भ्रान्ता प्रियदर्शना ॥ १४ ॥ साऽऽह पूर्वाहिकं राज्ञः, तया(तः) पस्पर्श पाणिना । प्राग् विषाक्तेन तेनासौ, वासितो मोदकोऽभवत् ।। १५ ॥ अहो ! सुगन्ध इत्युक्त्वा, सा तं चेटीकरे ददौ । तच्चेष्टितमजानाना डुढौके साऽपि भूभुजे ॥ १६ ॥ विमान-तनयौ पार्श्वेऽभूतां दध्यौ ततो नृपः । बुभुक्षिताभ्यामेताभ्यां, कुर्वे पूर्वाहिकं किमु ? ॥ १७॥ द्विधाकृत्य तयोस्तस्यैकैकं खण्डं ददौ नृपः । तदास्वादाद् विषावेगपूणितौ तौ बभूवतुः ॥ १८ ॥ सम्भ्रमाद् वहबो(निपुणा) वैद्या, आहूता भृभुजाऽऽययुः । सुवर्णपानयोगेन, सजीजातावुभौ क्षणात् ॥ १९ ॥ आहूता पृष्टा सा चेटी, भृमुजा विस्मितात्मना । तयोर्मातकरस्पर्श, विचाले प्राह केवलम् ॥ २० ॥ तामाकार्याबदद् देवः, सखेदं प्रियदर्शनाम् । पापेऽनाचीर्णपुण्योऽहं, क्षिप्तोऽभूवमधस्त्वया ।। २१ ॥ दीयमानं तदा राज्य, भवत्याऽङ्गीकृत न किम् ? । तद् गृहाणाधुनेत्युक्त्वा, दचा प्रवजितः स्वयम् ॥ २२ ॥ साधुसचाटकस्तत्रावन्तीतः कश्चिदाययो । निरुपद्रवतां पृष्टो, मुनीनामिदमभ्यधात् ।। २३ ॥ साधून पाखण्डिनश्चापि, पुरोधो-राजनन्दनौ । वाचाटावुच्चाटयतः, केवलं केलिलोलुपौ ।। २४ ॥ श्रुत्वा सागरचन्द्रषिः, सामर्षस्तामगात् पुरीम् । साम्भोगिकानां साधूनामुपाश्रयमशिश्रयत् ।। २५ ।।
॥८६॥
For Private and Personal Use Only