________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagersuri Gyanmandir
जैन कथा
णेवः ८४॥
मुव्रतमहर्षि
कथा
卷染器等柴柴聯部部整器器等參帶张张晓张张馨馨染
शतजा
कथं दत्तस्त्वया मन्त्रिन् !, कटक: ? सोऽप्यदोऽवदत् । त्वां मुक्त्वाऽन्यनृपं सेवे, पुराऽऽसीदिति चिन्तितम् ॥३२॥ कि श्रीकान्तेऽर्पितो हारस्त्वयेति साऽऽह मत्पतेः। द्वादशाब्दा गतस्याऽऽसनानयमि परं नरम ।। ३३॥ कथं दत्तः [किमदायि] त्वया सादिन्नडशः १ सोऽप्यथाब्रवीत् । मारयाऽऽनय वात्रेभ, ज्ञापितं यत् पुरा परैः ॥३४॥ सर्वेऽपि स्वार्थसिद्धयर्थ, राज्ञाऽऽदिष्टाः मुतादयः । व्यधुनिषेधमुद्बुद्धास्तत्तत्यागाभिलाषतः ॥ ३५ ॥ युवराजादयः सर्वे, वैराग्यादस्तकल्मषाः । क्षुल्लकुमारमार्गेण, तदैवाऽऽददिरे व्रतम् ॥ ३६॥ इत्थं क्षुल्लकुमारस्य, निशम्य चरितं हितम् । शुभं भजन्तु भावेन, भो भव्या ! भावमाभनम् ॥ ३७॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता क्षुल्लकमुनिकथा संपूर्णा.
५५ श्री सुव्रतमहर्षिकथा सुदर्शनपुरे पूर्व, शिशुनागो महाधनी । बभूव सुयशानाम्नी, तत्विया प्रेमशालिनी ॥१॥ पितृभ्यां परमप्रीत्या, लाल्यमानः प्रसूनवत् । ज्ञान-विज्ञानवान् जज्ञे, तत्सुतः सुव्रताह्वयः ॥२॥ यौवनं पावनं प्राप, स स्त्रैणगणमोहनम् । क्रमेण कर्मयोगेन, वैराग्यं च महत्तरम् ॥ ३॥ सम्बोध्य पितरौ कृच्छ्राद् , जगृहे सुव्रतो व्रतम् । बहुश्रुतस्तथैकत्वविहारपतिमामपि ।। ४ ॥ प्रशशंसान्यदा शक्रस्तं वीक्ष्य प्रतिमास्थितम् । सुरावश्रद्दधानौ द्वौ, पुंरूपावीयतुर्भुवम् ॥ ५॥ कुमारब्रह्मचार्यप, धन्य[धर्मी] एकोऽवदत् सुरः । परश्च कुलसन्तान-च्छेदकः पापवानयम् ॥ ६ ॥
蒂蒂遊路够染染染路路路路路路路路路路路路绕路等路
॥८४॥
For Private and Personal Use Only