________________
Shri Mahavir Jain Aradhana Kendra
******
www.kobatirth.org
तदाऽभ्यन्तरपर्षद्यासीत् नाट्यं नाटिकाकृतम् । नटी पश्चिमयामिन्यामीषन्निद्रार्दिताऽभवत् ॥ १९ ॥ निद्रायमाणां तां वीक्ष्य, दध्यौ धौरिकिनी हृदि । तोषिता परिषत् सर्वा, लब्धं बहुतरं धनम् ॥ २० ॥ निद्रातीयं यदीदानीं भवामा धर्षिता इति । सा सुष्टु गीतमित्यादि गीतिकामुच्चकैर्जगी ॥ २१ ॥ तद्यथा—“सुड्डु गाइयं सुदु वाइयं सुदु णच्चियं सामसुंदरी ! |
अणुपालय दीहराइ[ति] या उ सुमितए मा पमायए ॥ १ ॥"
अत्रान्तरेऽर्पितः क्षुल्ल - साधुना रत्नकम्बलः । कुण्डलं युवराजेन, यशोभद्रेण चार्पितम् ।। २२ ।। reat मन्त्रिणादायि, नर्त्तक्यै यतिसन्धिना । हारः श्रीकान्तया सार्थवाह - पत्न्याऽर्पितोऽद्भुतः ॥ २३ ॥ वितीर्णः कर्णपालेन, महामात्रेण चाङ्कुशः । पञ्चकं कम्बलाद्येतत्, लक्षमूल्यै पृथक् पृथक् ॥ २४ ॥ लिख्यते वहिकायां यस्तत्र तुष्यति रुष्यति । स्याद् दानादानयोर्ज्ञानेऽनुग्रहो निग्रहोऽन्यथा ॥ २५ ॥ सर्वेऽपि मातराहूताः, किं त्वया रत्नकम्बलः । दत्तः ! क्षुल्लकुमारेति, राज्ञा पृष्टः ससम्भ्रमम् ॥ २६ ॥ स यथा मारितस्तातो, माता नष्टाऽऽर्यिकाऽभवत् । यावदुद्यौवनोऽत्रागां, भोगार्थीत्यवदत् समम् ॥ २७ ॥ गृहाण पुत्र ! तद् राज्यमित्यूचे पुण्डरीकराट् । सोऽप्याख्यत् तात ! राज्येन सृतं दुर्गतिहेतुना ॥ २८ ॥ मरिष्याम्यचिरादेव, प्रमादोऽल्पकृते हि कः ? । संयमोऽपि पुराऽऽचीर्णो नश्यत्येवर्षिसङ्गजः ॥ २९ ॥
कुमार ! त्वया दत्तं कुण्डलं ? सोऽप्यदोऽवदत् । मारयामि जरद्भूपं, राज्यं दास्यत्यसौ न मे ॥ ३० ॥ निशम्य भूभर्त्ताsseत्स्व राज्यं ममाऽऽत्मज ! । न कार्यमार्य ! राज्येन, नरकान्तेन सोऽप्यवक् ॥ ३१ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir