________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
***
*
*
५३ श्री द्विमुखराजर्षिकथा अस्तीह भरतक्षेत्रे, पुरे काम्पीयनामनि । श्रीमहरिकुलोद्भुतो, यथार्थः पार्थिवो जयः॥१॥ गुणमालाप्रिया तस्य, गुणमाला प्रियाऽभवत् । निनाय वासरान् राज्यं, भुआनो राह तया समम् ॥२॥ दूत स्वाकूतमन्येद्यनपोऽपृच्छत् किमस्ति न । यदस्ति राज्ञामन्येषां ! सोऽयक् चित्रसभा न ते ॥३॥ ततोऽधिकारिणो राज्ञाऽदिष्टास्ता कारयन्तु भोः । तदैव तैरथाऽऽरब्धा, राज्ञां कार्य क्चोऽनुगम् ॥४॥ क्षमाया खन्यमानायां, दृष्टः पञ्चमवासरे । मुकुटः सर्वरत्नाढयः, प्रभाभत्सितभास्करः ॥ ५॥ शिष्टः कर्मकरै राक्षे, तूर्यवादनपूर्वकम् । उद्धतोऽसौ ततो भूमे- भुजा पूजिताश्च ते ॥६॥ निष्पन्नाऽभ्रंलिहा स्तोक-कालात चित्रसभा नृपः । सुमुहूर्ते प्रविष्टोऽन्त--मंगलध्वनिपूर्वकम् ॥७॥ स दिव्यमुकुटो मूद्धिन, धृतः श्रीज्यभृभुजा । तस्याऽऽस्यस्यात्र सङ्क्रान्त्या, द्विमुखाऽऽख्यां जनोऽतनोत् ॥८॥ तस्याऽऽसंस्तनयाः सप्त, गुणमाला ममाऽऽत्मजा । नेति चक्रे धृति स्त्रीणां, पुत्री प्रायोऽतिवल्लभा ॥९॥ उपयाचितकं मेने, कामयक्षस्य राज्यथ । कल्पद्रमअरीस्वम--सूचिताऽस्याः सुताऽभवत् ॥१०॥ सवर्द्धापनकं नाम, दत्तं मदनमरी । वर्द्धमानेन्दुलेखेव, साऽभूदुद्यौवनोन्मुखी ॥११॥ इतश्चोजयनीपुर्या, प्रद्योतश्चण्डशासनः । पार्थिवो बुभुजे राज्यं, दूतोऽग्रेऽस्येदमब्रवीत् ।। १२ ।। देव ! दिव्यकिरीटानुभावेन द्विमुखामिधाम् । जयो राजाऽऽप तत् श्रुत्वा, राज्ञोऽस्योपर्यभूत् स्पृहा ॥ १३ ॥
*
For Private and Personal Use Only