________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
वः
श्रीद्विमुखराजर्षिकथा
॥८२॥
號张张张张张黎张张露能器张密派器张密密密举带密器
प्रद्योतः प्राहिणोद् दृतं, स्वाकूतमिव भूभुजे । सोऽप्यागत्याऽह ते राजन् !, किरीटं देहि मत्प्रभोः॥ १४ ॥ मत्प्रभोरेव योग्य तद् , युद्धसजो न चेद् भव । श्रुत्वेति द्विमुखोऽबोचदस्तु तद्वस्तु मे प्रियम् ॥१५॥ गजोऽनलगिरिश्चाग्निभीरू रथः शिवा प्रिया । लोहजसो लेख्वाहो, दद्यादेतत् तब प्रभुः ॥ १६ ॥ तद्राज्यसारभूतं तद् , दूतो गत्वाऽऽह तत्समम् । सैन्याटोपेन कोपेन, प्रद्योतः प्राचलत् ततः ॥ १७॥ लक्षद्वयं गजेन्द्राणां, स्थानामपि तद् द्वयम् । सप्तकोटयः पदातीनां, पञ्चायुतानि वाजिनाम् ।। १८ ॥ प्रयाणैः सोऽनवच्छिन्न-रेतावत्सेनयान्वितः । तस्थौ सागरव्यूहेन, सीनि पश्चालनिवृतः ॥१९॥ द्विमुखः सन्मुखं तस्य, प्रतस्थे सर्वसेनया । विस्तार्य गरुडव्यूह, तस्थौ सीम्नि स्वनीधृतः ॥ २० ॥ लग्नमायोधनं तत्र, सैन्ययोरुभयोरपि । अजय्यो द्विमुखो राजा, तत्किरीटानुभावतः ॥ २१॥ भग्नं द्विमुखसैन्येन, गद्योतस्याखिलं बवा । बद्ध्वा पुरान्तरानीतः, प्रद्योतो द्विमुखेन तु ॥ २२॥ पादयोर्निगडो दत्तो, धिक कष्टं परतन्त्रता । पुरान्तर्धमताऽनेन, दृष्टा मदनमजरी ॥ २३ ॥ पञ्चवाणेन बाणेन, विद्धस्तद्दर्शनादसौ । नष्टवि(चित्त इव दृष्टः, पृष्टो द्विमुखभूभुजा ॥ २४ ॥ साबाध इव किं राजन् !, वीक्ष्यसे ब्रूहि कारणम् ! | निःश्वस्य दीर्घ प्रद्योतः, कथञ्चिदिदमृचिवान् ॥ २५॥ "मयणवसगस्स नरवर !, वाहिविधत्थस्स तह य मत्तस्य । कुवियस्य मरंतस्स य, लज्जा दूरुज्झिया होइ ॥ २६ ॥ तद् यदीच्छसि मे क्षेम, तदा मदनमअरीम् । राजन् ! देहि न चेदेवं, विशामि ज्वलितानले ॥ २७॥ ततस्तनिर्णयं ज्ञात्वा, द्विसुखोऽदात् निजां कनीम् । प्रद्योतनाय सन्तो हि, प्रार्थनाभङ्गमीरवः ॥२८॥
॥८२॥
For Private and Personal Use Only