________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
卷落落落落染染染路路路器器类器类器弟弟张染磨器等器器
इत्युत्तराध्ययनानुसारान् केशिगुरोस्यम् । सम्बन्धो दर्शितोऽस्माभिर्भव्यानां भविकेच्छु(सु)भिः ॥८६॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृत केशीगौतमीय प्रबन्धः सम्पूर्णः.
५१ श्रीवीरप्रभुपूर्वमातृपितृसम्बन्धः अन्येधुर्भगवान् वीरो, बिहरन समवासरत् । ब्राह्मणकुण्डग्रामस्य बहुशालाभिधे बने ॥१॥ देवाः समवसरणं, चक्रिरे पर्षदाययौ । देवानन्दर्षभदत्तावीयतुर्दम्पती च तौ ॥२॥ प्रभु नवर्षभदत्तो, यथास्थानमुपाविशत् । देवनन्दाऽप्युदानन्दा, पृष्ठस्थाऽस्थात् निजेशितुः ॥३॥ स्तनाभ्यां प्रक्षरतस्तन्यां, देवीवानिमिषेक्षणा(ण)म् । पश्यन्तीं तां प्रभुं वीक्ष्य, गौतमोपृच्छदुत्सुकः ॥ ४ ॥ जगचकोरशीतांशी(शो!), त्वयि सर्वोऽपि सादरः । ब्राह्मणीयं विशेषेण, किमिति ब्रूहि कारणम् १ ॥५॥ गौतम गौतमगुरु-रूचे घशीत्यहान्यहम् । कुक्षावमुष्या उपितः, स्नेहोऽस्यास्तन्महान् मयि ।। ६ ।। तत् श्रुत्वा दम्पती हृष्टी, चिन्तयामासतुईदि । अहो ! क पितरावावां ?, क्वायं सूनुर्जगत्पिता ! ॥७॥ उत्थाय नेमतुर्वीर, पितरौ हर्षनिर्भरौ । तौ यत्र दुष्प्रतीकारौ, चक्रेर्हनिति देशनाम् ॥८॥ असारसंसृतावत्र, पिताऽयं सूनुरेष वा । घटते विघटते च, सम्बन्धो बहुशोऽङ्गिनाम् ॥ ९॥ तद् वस्तु वस्तुतो युक्ति-युक्तं नात्राबभासते । विना दीक्षां तदुच्छित्तिः, सर्वथा नहि जायते ॥१०॥ तत् श्रुत्वा तौ पुनर्नवा, श्रीवीरमिदमूचतुः । निस्तारय भवादावां, दीक्षातर्याऽधुना विभो ! ॥११॥
晓晓婆婆亲密亲密密密卷卷绕卷器张密密密密落落落落跨线
For Private and Personal Use Only