________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेन कथा
व: ॥७८॥
| केशीगोतमीयप्रबन्धः
步带张紧张論誰說張亲%碳碳张张张张器带密举瑞聯
उद्गतो विमलो भानुः, सर्वलोकप्रभाकरः । प्राणिनां सर्वलोकेऽस्मिन्नुद्योत स करिष्यति ॥ ७२ ॥ भानुश्च क इह प्रोक्तः !, केशिगौतममब्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ।। ७३॥ उद्गतः क्षीणसंसारः, सर्वज्ञो जिनभास्करः। प्राणिनां सर्वलोकेऽस्मिन्नुद्योतं स करिष्यति ॥७४ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं, संशयं वद गौतम ! ॥ ७५ ।। प्राणिनां बाध्यमानानां, दुःखैः शारीर-मानसैः । क्षेमं शिवमनाबाधं, स्थानं किं मन्यसे मुने ! ? ॥ ७६ ॥ लोकाग्रेऽस्ति दुरारोह, स्थानमेकं ध्रुवं ध्रुवम् । यत्र नास्ति जरा-मृत्युफ्धयो वेदनास्तथा ॥ ७७ ॥ स्थानमत्र किमुक्तं भोः ?, केशिगौतममब्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ॥ ७८ ।। निर्वाणमित्यनाबाधं सिद्धिोकाग्रमेव च । क्षेम शिवमनाबाधं, यचरन्ति महर्षयः ॥ ७९ ॥ लोकाग्रेऽस्मिन् दुरारोह, तत् स्थानं शाश्वताश्रयम् । यत् सम्प्राप्ता न शोचन्ति, भवौधान्तकरर्षयः ॥ ८० ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । नमस्ते संशयातीत !, सर्वसूत्रमहोदधे ! ॥ ८१॥ एवं तु संशये छिन्ने, केशि|रपराक्रमः । कृताञ्जलिपुटो नत्वा, गौतम गणभृद्वरम् ।। ८२॥ पञ्चमहाव्रत(तं) धर्म भावतः प्रति(त्य)पद्यते(त)। पूर्वाहतो मते मार्ग, तत्रासौ पश्चिमाईतः॥ ८३ ॥ युग्मम् ॥ केशि-गौतमयोर्नित्यं, तस्मिन्नासीत् समागमे । श्रुत-शीलसमुत्कर्षों, महार्थार्थविनिश्चयः ।। ८४ ॥ तोषिता परिषत् सर्वा, सन्मार्ग समुपस्थिता । प्रसीदतां भगवन्तौ, संस्तुतौ केशि-गौतमौ ॥ ८५ ॥
遊亲密染整部张继张张蒸蒸蒸张张张张张密密举染染染
॥७८॥
For Private and Personal Use Only