________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
密带张张张张张张张张张带器體张张张张张张黎
ये च मार्गेण गच्छन्ति, कुमार्ग प्रस्थिताच ये । विदिता मम ते सर्वे, तन्न नश्याम्यहं मुने ।। ५७ ।। इह मार्गश्च कः प्रोक्तः ?, केशिगौतममब्रवीत् । केशिमेवं त्रुवाणं तु, गौतमोऽपीदमब्रवीत् ॥ ५८॥ पाखण्डिनोऽलीकवाचः, सर्वेऽप्युन्मार्गगामिनः । सन्मार्गस्तु जिनाख्यात, एप मार्गो ह्यनुत्तरः ५९॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं, संशयं वद गौतम ! ॥ ६ ॥ प्राणिनां वाह्यमानानां, महावेगेन वारिणा[णः] । शरणं गति प्रतिष्ठां द्वीपं, के [किं] मन्यसे मुने ! ? ॥ ६१॥ अस्ति चैको महाद्वीपो, बारिमध्ये महालयः । महावेगस्य पयसो, गतिस्तत्र न विद्यते ॥ ६२ ॥ इह द्वीपश्च कः प्रोक्तः ?, केशिगौतममब्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ।। ६३ ।। प्राणिनां वाह्यमानानां, जरा-मरणगतः । धर्मो द्वीपः प्रतिष्ठा च, गतिः शरणमुत्तमम् ॥ ६४ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं, संशय बद गौतम ! ॥६५॥ बृहत्प्रवाहे पाथोधौ, बेडा विपरिधावति । यस्यां त्वं गौतमाऽऽरूढः, कथं पारं गमिष्यसि ? ॥६६॥ आश्राविणी तु नौयंत्र, न सा पारस्य गामिनी । या निराश्राविणी नौ ! सा पुनः पारगामिनी ॥ ६७ ॥ का प्रोक्ता नौरिह मुने ! ?, केशिगौतममब्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ॥ ६८ ॥ शरीरं नौरिति प्राहुर्नाविको जीव उच्यते । संसारो वारिधिः प्रोक्तो, यं तरन्ति महर्षयः ॥ ६९ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं संशयं वद गौतम ! ।। ७० ॥ अन्धकारे महारौद्रे, तिष्ठन्ति बहवोगिनः । प्राणिनां सर्वलोकेऽस्मिन्नुद्योतं कः करिष्यति ? ॥७१॥
For Private and Personal Use Only