SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः ॥७७॥ केशीगौतमीयप्रबन्धः लतां तां सर्वतश्छित्वा, समुद्धत्य समूलिकाम् । विहरामि यथान्यायं, मुक्तोऽस्मि विषभक्षणात् ॥ ४२ ॥ का लतेह पुनः प्रोक्ता ?, केशिगौतममब्रवीत् । केशिमेव ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ॥४३॥ भवतृष्णा लता प्रोक्ता, भीमा भीमफलोदया । तामुदत्य यथान्यायं, विचरामि यथासुखम् ॥ ४४ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं, संशयं वद गौतम ! ॥४५॥ सम्यक प्रज्वलिता घोरास्तिष्ठन्ति गौतमाग्नयः । ये दहन्ति शरीरस्थाः, कथं विध्यापितास्त्वया ?॥४६॥ श्रोतसो गुरुमेघोत्थाद् , गृहीत्वा जलमुत्तमम् । सिञ्चामि सततं तांस्तु, सिक्तास्ते न दहन्ति माम् ॥४७॥ अग्नयश्चेह के प्रोक्ताः ?, केशिगौतममब्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ॥ ४८ ॥ कषाया अग्नयः प्रोक्ताः, श्रुत--शील-तपोजलम् । श्रुतधाराभिहताः सन्तो, भिन्नास्ते न दहन्ति माम् ॥ ४९ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं, संशयं :वद गौतम ! ॥ ५० ॥ अयं साहसिको भीमो, दुष्टाश्वः परिधावति । यस्मिंश्च गौतमाऽऽरूढस्त्वं नापहियसे कथम् ? ॥ ५१॥ प्रधावन्तं निगृह्णामि, श्रुतरश्मिसमाहितम् । न गच्छति ममोन्मार्ग, मार्गं च प्रतिपद्यते ॥ ५२ ॥ कश्चाश्वः पुनरत्रोक्तः ?, केशिगौतममब्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ॥ ५३॥ मनः साहसिको भीमो, दुष्टाश्वः परिधावति । तं निगृहाम्यहं सम्यक्, कविका[कन्थकं]धर्मशिक्षया ॥ ५४ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं, संशयं वद गौतम ! ॥ ५५ ॥ कुपथा बहवो लोके, येभ्यो नश्यन्ति जन्तवः । वर्तमानोऽध्वनि कथे, त्वं न नश्यसि गौतम ! ? ॥५६॥ 然弟弟张张晓晓晓张晓晓雾器类際路路路路路路晓晓蒂器等 ॥ ७७॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy