________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
कार्यमेकं प्रपन्नानां, विशेषे किं नु कारणम् १ । मेधाविन् ! द्विविधे लिङ्गे, कथं विप्रत्ययो न ते १ ॥ २७ ॥ ब्रुवाणमेवं तं केशिमुवाचेदं च गौतमः । विज्ञानेन समागम्य (त्य), तदिष्टं धर्मसाधनम् ॥ २८ ॥ प्रत्ययार्थं च लोकानां नानाविधविकल्पनम् । यात्रार्थं ग्रहणार्थं च, लोके लिङ्गप्रयोजनम् ॥ २९ ॥ इत्युक्ते गौतमेनाऽऽख्यत् केशिः छिन्नो भदन्त ! मे । संशयोऽन्यमपि ब्रूहि, तं महाप्राज्ञ ! गौतम ! ॥ ३० ॥ बहुशत्रुसहस्राणां मध्ये तिष्ठसि गौतम !, जेतुं त्वां तेऽभिगच्छन्ति, कथं ते निर्जितास्त्वया ? ॥ ३१ ॥ पञ्चैकस्मिन् जिते शत्रौ, जितास्ते (स्तैः) पञ्चभिर्दश । दशप्रकारांस्तान् जित्वा, सर्वशत्रून् जयाम्यहम् ॥ ३२ ॥ केऽत्रोक्ताः शत्रवश्चेति, केशिर्गौतम-मब्रवीत्। केशिना पृष्ट इत्याख्यद्, गौतमोऽपीदमुत्तरम् ॥ ३३ ॥ एक आत्मा जितः शत्रुः कषाया इन्द्रियाणि च । तान् जित्वाऽहं यथान्यायं, विहरामि महामुने ! ॥ ३४ ॥ इत्युक्ते गौतमेनाऽऽख्यत्, केशिः छिन्नो भदन्त ! मे । संशयोऽयं (ह्य) परमपि तं ब्रूहि प्राज्ञ ! गौतम ! ||३५|| दृश्यन्ते बहवो लोके, पाशबद्धाः शरीरिणः । मुक्तपाशो लघू (घु) भूतः, कथं विहरसे मुने ! १ ॥ ३६ ॥ छित्वा सर्वांश्च तान् पाशा-नुपयातो निहत्य तान् । मुक्तपाशो लघु (घु) भूतो, विहरामि यथासुखम् ॥ ३७ ॥ पाशा अत्र च के उक्ताः ?, केशिर्गौतममत्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमाख्यत ॥ ३८ ॥ राग-द्वेषादयस्तीत्राः, स्नेहपाशा भयङ्कराः । तान् छित्त्वाऽहं यथान्यायं, विहरामि यथाक्रमम् ॥ ३९ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं संशयं वद गौतम ! ॥ ४० ॥ अन्तर्हृदयसम्भूता, लता तिष्ठति गौतम ! । फलानि विषभक्ष्याणि, सूते सा तुद्धता कथम् ॥ ४१ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir