________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः ॥७६।।
केशी-गौतमीयप्रबन्धः
गौतमः प्रतिरूपज्ञः, शिष्यसम्पत्समन्वितः । कुलज्येष्ठतया केशि-संश्रितं शिश्रिये वनम् ॥ १२ ॥ कुमारश्रमणः केशिर्वीक्ष्य गौतममागतम् । प्रतिरूपां प्रतिपत्ति, सम्यक सम्प्रतिपद्यते ॥ १३ ॥ पलालं प्रासुकं शुष्कमदभ्रदर्भगर्भितम् । गौतमस्य निषद्याय, क्षिप्रमर्पयति स्म सः ॥ १४ ॥ केशिः कुमारश्रमणो, गौतमश्च महायशाः । उभौ निषण्णौ शोभाते, चन्द्र-सूर्यसमश्रियौ ॥ १५ ॥ ईयुः पाखण्डिनस्तत्र, बहवः कौतुकार्थिनः । गृहस्थानामनेकाच, साहरूयः सहसाऽऽययुः ॥ १६ ॥ देव-दानव--गन्धर्व-यक्ष-किन्नर-रक्षसाम् । अदृश्यानां च भूतानामासीत् तत्र समागमः ॥ १७ ॥ पृच्छामि त्वां महाभाग !, केशिगौतममब्रवीत् । एवं तेनर्षिणा प्रोक्ते, गौतमोऽप्यत्रबीददः॥ १८॥ यथेच्छं पृच्छ भोः स्वच्छ ! गौतमः केशिमब्रवीत् । एवं केशिरनुज्ञातः, पप्रच्छेदं च गौतमम् ॥ १९ ॥ च(चा) तुर्यामश्च यो धर्मो, यश्चायं पश्चशिक्षितः । देशितो वर्द्धमानेन पार्श्वनाथेन चाहता ॥ २०॥ कार्यमेकं प्रपन्नानां, विशेषे किं नु कारणम् ? । मेधाविन् ! द्विविधे धर्म, कथं विप्रत्ययो न ते ? ॥ २१॥ केशिमेवं ब्रुवाणं तु, तं चेदं प्राह गौतमः । प्रज्ञा समीक्षते धर्मतत्त्वं तत्त्वविनिश्चयम् ।। २२ ॥ पूर्वर्षयस्त्वृजु-जडा, वक्र-जडाश्च, पश्चिमाः । मध्यमास्तु ऋजु-प्र(पा)ज्ञास्तेन धर्मो द्विधा कृतः ॥२३॥ पूर्वर्षीणां दुर्विशोध्योऽन्त्यानां दुरनुपालकः । कल्पो मध्यमकानां तु, सुविशोध्यः सुपालकः ॥ २४ ॥ इत्युक्ते गौतमेनाऽख्यत् , केशिः छिनो भदन्त ! मे । संशयोज्यमपि ब्रूहि, तं महाप्राज्ञ ! गौतम ! ॥ २५॥ अचेलकश्च यो धर्मो, यथार्य सान्तरोत्तरः । देशितो बर्द्धमानेन, पार्श्वन च महात्मना ।। २६ ॥
॥७६॥
For Private and Personal Use Only