________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निविशेषमनोवृत्तिधर्मपुत्रे सुयोधने । भगवान् दमदन्तर्षिविजहार वसुन्धराम् ॥ १६ ॥ इति श्रीमद्रित-ऋषिमण्डलप्रकरणवृत्तित उद्धता समभावोपरि दमदन्तमहर्षिकथा सम्पूर्णा
५० श्री केशीगौतमीय प्रवन्धः प्रतापतपनोऽत्यन्तं, तपत्यद्यापि यत्प्रभोः । दोषाकरोदयध्वंसी, स श्रीपार्श्वः श्रियेऽस्तु वः ॥१॥ तस्य शिष्यशिरोरत्नं, केशिनामा महामुनिः । अवधिज्ञानवान् ग्रामानुग्राम विहरनगात् ॥ २॥ पुर्यां श्रावस्त्यामन्येद्यर्बुद्धः शिष्यपरीवृतः । शुद्धोर्त्यां समवासार्षीत् , चोद्याने तिन्दुकाभिधे ॥ ३॥ युग्मम् इतश्च धर्मतीर्थस्य, कर्ता हर्ताऽखिलापदाम् । भगवान् वर्द्धमानोऽभूद् , जगन्नेत्रसुधाअनम् ।। ४ ।। शिष्यमुख्योऽभवत् तस्य, गौतमो द्वादशाङ्गवित् । शिष्यसङ्घसमाकीर्णः, श्रावस्त्यां सोऽप्यथागमत् ॥ ५॥ उद्याने समवसृतः, कोष्ठके प्रासुकावनौ । द्वयोर्गणभृतोर्दैवादेवं तत्राऽऽगमोऽभवत् ॥ ६॥ तयोर्गोचरचर्यायां, शिष्याणां भ्रमतां द्वयोः । वीक्ष्यान्योन्यमियं चिन्ता, चेतस्याविरभूत तदा ॥ ७॥ कीदृग् धर्मोऽयमस्माकं ! तेषां वा कीदृशस्त्वयम् ? आचारधर्मप्रणीधिरय वा स नु(तु) कीदृशः ॥८॥ चातुर्यामश्च यो धर्मों, यश्चायं पश्चशिक्षितः । देशितो बर्द्धमानेन, पार्श्वेन च महार्हता ॥९॥ अचेलकश्च यो धर्मो, यश्चायं सान्तरोत्तरः । कार्यमेकं प्रपन्नानां, विशेषे किं नु कारणम् १ ॥१०॥ अथ तौ तत्र शिष्याणां, विज्ञाय प्र(-याथ)वितर्कितम् । समागमे कृतमती, अभूतां केशि-गौतमौ ॥११॥
For Private and Personal Use Only