________________
Shri Mahavir Jain Aradhana Kendra
*********
www.kobatirth.org
देवक्यै सौलसान् (सुलासा-) गर्भान्, मृतानर्पितवान् सुरः । दृपद्यास्कालयत् कंसो, निस्तृशो (शैः) भिन्नवस्त्रवत् ॥२४॥ पडे देवकीगर्भाः, सुलसाया गृहे सुखम् । तस्या एव वधिरे, स्तनन्धयाः स्तनन्धयाः ॥ २५ ॥ नाम्नाऽनीकयशोऽनन्तसेनावजितसेनकः । निहतारिर्देवयशाः शत्रुसेनश्च ते त्वमी ॥ २६ ॥ क्रमादुद्यौवनाः कन्याः पितृभ्यां परिणायिताः । द्वात्रिंशतं ते प्रत्येकं, भोगान् बुभुजिरे चिरम् ॥ २७ ॥ इतश्च पावयन् पादैः, श्रीनेमिरवनीतलम् । ईयिवान् भद्दिलपुरं, सेव्यस्त्रिदशकोटिभिः ॥ २८ ॥ श्रुत्वाऽन्ते तेऽर्हतो धर्म, जगृहुः षडपि व्रतम् । तपस्यन्तस्तपस्तीव्रं विजहुः रर्हता समम् ॥ २९ ॥ fare मिनाथोऽथ, द्वारकां पुनराययौ । तस्थौ सहस्राम्रवणोपवने देवसंस्कृतेि ॥ ३० ॥ पडपि भ्रातरः षष्ठपारणकं (क) चिकीर्षवः । त्रिधा युगलिनो भूत्वा, विविशुर्द्वारकां पुरीम् ।। ३१ ।।
satarशोऽनन्तसेनौ युगलके मुनी । आयातौ देवकीस, तौ दृष्ट्वा साऽत्यमोदत ॥ ३२ ॥ प्रत्यलाभयदेतौ सा, मोदकैः सिंहकेसरैः । जग्मतुस्तौ ततश्चान्यौ, भ्रातरावागतौ मुनी ॥ ३३ ॥ अजितसेन - निहताख्यावपि च प्रतिलाभितौ । पुनर्मुमुक्षोस्तादृक्षं, तृतीयं युग्मभागतम् ॥ ३४ ॥ देवयशः - शत्रुसेनाभिधं पप्रच्छ देवकी । दिङ्मोहो भगवान् ! किं वो, यत् त एवाऽऽगताः पुनः ।। ३५ ।। किमेत एवेति मतिभ्रमो यूयं परे पुनः १ पुर्यो वा स्वर्गकल्पायां, भैक्ष्यं नर्षिभिराप्यते ॥ ३६ ॥ ऊचतुस्तौ न दिङ्मोहः (दिङ्मोह न), किन्तु षट् सोदरा वयम् । सुलसा - नागयोः पुत्रा, भद्दिलद्रङ्गवासिनोः ॥३७॥ प्रजामो वयं धर्म, श्रुत्वान्ते नेमिनो हि षट् । भवद्गृहे त्रियुग्मेन, पारणार्थमिताः पृथक ।। ३८ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir