SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 端器等器端藥张继器端端樂器器樂器器端端藥鱗器继继器等 आसीद् गुणमणिसिन्धुर्बन्धुर्मे कुसुमकेतुरिति नाना । स च गुणसागर इत्ययमभूद् यथार्थाभिधस्तत्र ॥ ४९ ॥ तदखिलमिहेति हेतोर्मम तस्य च दृश्यमस्ति सादृश्यम् । श्रुत्वेति साधुमधुनोऽप्युधुनोत् सुधनो वचः स्वशिरः ॥५०॥ संप्राप्तपरमबोधः सोऽधाकृतदुष्कृतोऽथ गृहिधर्मम् । प्रतिपद्य हृद्यमभवदत्रामुत्रापि शर्मपदम् ।। ५१ ।। अनेकलक्षाण्यब्दानां कैवल्यं प्रतिपाल्य ते । पृथ्वीचन्द्रादयः सर्वे शिवश्रियमशिश्रयन् ॥ ५२ ॥ इति श्रीमुद्रित-पृथ्वीचन्द्रचरितादुद्धता एकादशभवगता पृथ्वीचन्द्रकथा संपूर्णा, ४८ देवकीषट्पुत्रकथा श्री वसुदेव-देवक्योः, कंसेनोपयमोत्सवः । सुहृद्-भगिन्योः स्नेहेन, प्रारब्धो मथुरापुरि ॥१॥ तत्र कंसानुजः कंस-समाऽऽगादतिमुक्तकः । विहरन् पारणाहेतोः, पुर्वोपात्तव्रतो व्रती ॥२॥ जरासन्धसुता जीव-यशा कंसप्रियाऽह तम् । साधो ! साधृत्सवाहेऽस्मिस्त्वमागा देवरोऽसि मे ॥३॥ एहि सार्द्ध मया नृत्य, हस गाय पिबाऽऽसवम् । लगित्वोन्मत्तया कण्ठे, सोऽकदार्थ गृहस्थवत् ॥ ४ ॥ स मुनिर्ज्ञानवानूचे, मुग्धे ! माद्यसि किं मृधा ? । देवक्याः सप्तमाद् गर्भात्, पति-पित्रोस्तव क्षयः ॥ ५॥ वज्रपातमिवासा, तत् श्रुत्वा कंसपत्न्यसौ । द्विधोत्तीर्णमदावस्था-ऽवस्था पत्ये शशंस ताम् ॥ ६॥ कंसः साशक आचख्यौ, प्रिये ! प्रकृतिभाषिणाम् । अपि मौघीभवेद् वज्र, महर्षीणां वचो न च ॥७॥ परं वाच्यं न कस्यापि, यतिष्ये यावदस्मि न । अस्मिन् कार्ये यतो मन्त्रः, षट्कर्णो भिद्यते बहिः ॥८॥ 张张张张张张张张张张张张黎张张张张张张张张张张张 For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy