________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
पृथ्वीचन्द्र | गुणसागर
प्रबन्धः
॥७२॥
एवं निभृतं ध्यायन् स्मरन श्रुतं पूर्वजन्मनाभ्यस्तम् । प्रतिपद्य भावसंयम-मभङ्गसंवेगरससिक्तः ॥ ३४ ॥ उदितोदितविशदतरा-ध्यवसायवशोऽनुसमयमेष मुनिः । निर्दग्धघातिकर्मा, केवलममलं क्षणादापत् ।। ३५॥ प्रणयिन्योऽपि नवास्ताअस्ता-खिलकर्मधर्मसन्तापाः । प्रतिपन्नभावचरणा, इह केवलसंविदमविन्दन् ॥ ३६ ॥ तत्केवलमहिमान, कर्तुमथाजग्मुरनिमिपाधीशाः । नेदुर्दिवि दुन्दुभयो भेजुर्भव्या मुदममन्दाम् ॥ ३७॥ तद्वीक्ष्य रत्नसञ्चयसुमङ्गले अपि तथा सुतवधूनाम् । केवलविभवं ते अपि मुहुर्मुहुस्तदनुमोदनया ॥ ३८ ॥ सातकर्मलाघववशेन सुविशुद्धसंयमरसेन । प्रक्षालितकर्ममले, लेभाते केवलमनन्तम् ॥ ३९ ॥ [ युग्मम् ] इत्येतत् तव नृपते !, विज्ञप्तं सांप्रतं महाश्चर्यम् । भूवल्लभोऽपि तदिदं, निशम्य सम्यग् विभावयति ॥ ४०॥ गुणसागरः स सत्यं, गुणसागर एव येन निजकार्यम् । संसाधितं क्षणेन, क्षयेण दुष्कर्मजालस्य ।। ४१ ॥ जाननप्येष कथं पतितो, राज्याख्यकूटयन्त्रेऽस्मिन् । गुरुजनदाक्षिण्यवशा-दुदास्तिमानात्मकायेऽपि ॥ ४२॥ तदहं कदा प्रपत्स्ये भवमथनी भगवतीं महादीक्षाम् । समशत्रुमित्रवृत्तिः, कदा चरिष्याम्यनिबन्धः ॥४३॥ इति भावनावशात्मा क्षिप्त्वा क्षणतोऽप्यशेषकर्माणि । पृथ्वीचन्द्रमहीन्द्रः प्रपेदिवान् केवलज्ञानम् ।। ४४ ॥ श्रुत्वैतत् तच्चरितं पोडश पृथ्वीपतेः प्रिया अपि ताः । संवेगरङ्गसङ्गतमनसोऽवापुः परं ज्ञानम् ॥ ४५ ॥ हरिसिंहोऽपि महीभृत् , पद्मावत्या समन्वितोऽपि तदा । केवलिवचसा कृतकर्म-निर्जयः केवलमवापत् ।। ४६ ॥ अथ सुधनसार्थवाहो, व्यजिज्ञपत् तं तदा महर्षीन्द्रम् । पृथ्वीचन्द्र भगवंस्तव गुणसागरमहर्षेश्च ॥ ४७ ॥ सोदरयोरिव साम्य साम्यनिधे ! दृश्यते कथमिहेदृक् ? । केवल्यजल्पदभवं कुसुमायुध इत्यहं पूर्वम् ॥४८॥
继器端端端樂器樂器端端樂器端端樂器器端端端游樂器
॥७२॥
For Private and Personal Use Only