________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
然密密密柴柴继张继赛举萃家亲亲爱茶张张张张张张张张张
पापः प्राप ततो द्वेष, पालकः स्कन्दकोपरि। अपकर्तुं पुनः किश्चि-तस्य न प्राभवत्तदा ॥९॥ कृतप्रस्तुतकृत्योऽथ, पालकः स्वास्पदं ययौ । जगाम न तु तच्चिता-त्कोपः स्कन्दकगोचरः ॥१०॥ अथ श्रीसुव्रतस्वामि-पादान्ते दान्तमानसः । प्राब्राजीत्स्कन्दका साकं, मानां पञ्चभिः शतैः ॥ ११ ॥ क्रमाबहुश्रुते जाते, स्कन्दके सुब्रतप्रभुः । तस्मै शिष्यतया तानि, पञ्च साधुशतान्यदात् ।। १२ ॥ अन्येयुः सुव्रताहन्तं, स्कन्दकः पृष्टवानिति, व्रजाम्यहं स्वसुर्दश-मादेशः स्याद्यदि प्रभोः ॥ १३ ॥ जगी जगत्प्रभुम्तत्रो-त्पत्स्यते मारणान्तिकः । सर्वेषामुपसर्गो व-स्तच्छुत्वा स्कन्दकोऽवदत् ।। १४ ।। आरधनासाधको हि, नोपसर्गस्तपस्विनाम् । दुःखायते महानन्द-महानन्दाभिलाषिणाम् ! ॥ १५ ॥ ततो ब्रूहि प्रभो ! तस्मि-नुपसर्ग उपस्थिते । आराधका भविष्यामो, वयं यद्वा विराधकाः। ॥ १६ ॥ स्वामी स्माह त्वां विनाऽन्ये, सर्वेप्याराधका इति । स्कन्दकस्तन्निशम्येति, व्यमृशभृशमुत्सुकः ॥ १७॥ आराधका इयन्तः स्यु-विहारे यत्र साधवः । नूनं स शुभ एवेति, विचिन्त्य स्कन्दकोऽचलत् ॥ १८ ॥ क्रमादद्गत्वा कुम्भकार- कृते स सपरिच्छदः । उद्याने समवासार्षी-त्तमश्रौषीच्च पालकः ॥ १९ ॥ ततः प्राग्वैरशुद्धयर्थ-मुद्याने तत्र पालकः । प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् ॥ २० ॥ इति दण्डकिराशे चा-पडक्षीणमुवाच सः । जितः परीषहैरत्र, स्कन्दकोऽस्ति समागतः ॥२१॥ अयं स्वयं महावीर्य-चण्डदोर्दण्डविक्रमैः । साधुवेषधरयुक्तो, भटानां पञ्चभिः शतैः ॥ २२ ॥ उद्याने गोपितेः शस्त्र-प्रकरैरतिदारुणैः । त्वां वन्दितुं गतं हत्वा, राज्यमेतद्ग्रहीष्यति ! ॥ २३ ॥ (युग्मम् )
端带杀杀杀求举踪踪踪踪柴柴柴柴柴柴柴柴举举张张德忠
For Private and Personal Use Only