________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तदा च यक्षपूजार्थ, तत्रागादर्जुनोऽपि हि । तंचायान्तं विलोक्यैवं, स्कन्दश्रीस्तानभावत ॥ ८॥ आग-छत्यर्जुनोऽसौ तत्कि मां यूयं विमोक्ष्यथ ? । ततस्ते चिन्तयन्नून-मेतस्याः प्रियमस्त्यदः ॥९॥ वराकान्मालिकादस्मा–नास्माकं भीरु ! मीरिति । ब्रुवन्तस्ते बबन्धुश्च, द्रुतमर्जुनमालिनम् ॥१०॥ तं यक्षस्य पुरो न्यस्य, तस्य पश्यत एव हि । सिषेविरे ते तत्कान्ता-महम्पूर्विकया मुहुः ॥ ११ ॥ स्वभार्या भुज्यमानां तै-र्वीक्ष्याचिन्तयदर्जुनः । एनं यक्ष पुष्पपुजैः पूजयाग्यहमन्वहम् ॥ १२ ॥ अद्य त्वस्यैव पुरतः, प्रामोम्येतां विडम्बनाम् । तन्निश्चितमिदं नैव, यक्षः कोप्यत्र विद्यते ।। १३॥ यदि चात्र भवेद्यक्ष-स्तदासौ मां स्वसेवकम् । नैवेदानीमुपेक्षेत, पीड्यमानमनाथवत् ॥ १४ ॥ ध्यायन्तमिति तं ज्ञात्वा, यक्षस्तदनुकम्पया । प्रविवेशाशु तस्याङ्गेऽछिदत्तद्वन्धनानि च ॥ १५ ॥ सहस्रपलनिष्पन्न, गृहीत्वा लोहमुद्गरम् । तान्नारीसप्तमान् गोष्टी-पुरुषान् पट् जघान च ।। १६ ।। इत्थं प्रतिदिनं नारी-सप्तमान् मानवान स षट् । जघान सतताभ्यासा-दाभं भ्रामं पुराबहिः ॥१७॥ तज्ज्ञात्वा पूर्जनः सर्व-स्तावन्न निरगाद्वहिः । यावत्तेन हता न स्युः, षट् नारीसप्तमा नराः ॥१८ ।। अन्यदा तत्पुरोपान्ते, श्रीवीरः समवासरत् । न त्वर्जुनभयात्कोऽपि, जिन नन्तुं ययौ जनः ॥१९॥ तदा तत्पुरवास्तव्यः, श्रुत्वा श्रीमजिनागमम् । एवं सुदर्शनः श्रेष्ठी, दध्यौ होच्छ्वसत्तनुः ॥२०॥ अहो ! जगजनाम्भोज-प्रबोधननभोमणिम् । श्रीवीरमपि नन्तुं नो, यात्यर्जुनभयाजनः ॥ २१ ॥ जिनस्य विश्वत्रितय-त्रायिणो ध्यायिनं जनम् । हन्तुमीष्टे न हीन्द्रोऽपि, तजनोऽयं बिभेति किम् ? ॥२२॥
For Private and Personal Use Only