________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथार्णवः
सोमदत्तसोमदेवर्षिकथा
॥६५॥
अयुक्तमेतदावाभ्या-मजानद्भयां महत्कृतम् । सुरामप्यपिबावाऽऽवां, प्रमादादसमीक्ष्य यत् ॥ ८॥ सेवेताकल्प्यमप्येव-माहारार्थी कदाचन । तदाहारपरीहार-मेवाऽऽवां कुर्वहेऽधुना ॥९॥ इत्यालोच्यापगातीर-गतकाष्ठोपरि स्थितौ । तावका: पादपोप-गमन मुनिसत्तमौ ॥ १०॥ अकालेऽपि तदा मेघ-वृष्टिज्ञेऽतिभूयसी । पूरयन्ती पयःपुरै-नंदी प्लावितसैकतैः ॥११॥ आरूढश्रमण दारु, ततारोडुपवत्ततः । उत्तेरतुस्ततो नैव, तदापि वतिनौ तु तौ ॥१२॥ सोऽथ सिन्धुरयः कूल-तरून्मूलनतत्परः । काष्ठारूढौ यती सद्य-स्तौ निनाय पयोनिधौ ॥ १३ ॥ उच्छलल्लोलकल्लोल-लोलनान्दोलनव्यथाम् । उल्लोलोत्क्षिप्तकाष्ठौघा-भिघातञ्चातिदारुणम् ॥ १४ ॥ जलजन्तुकृतां ग्रास-विवाधाञ्चातिदुःसहाम् । तत्र धीरमनस्कौ ता-वक्षमेतां क्षमानिधी ॥ १५ ॥ (युग्मम् ) यावजीव विषह्येति, तीवं शय्यापरीषहम् । देवभूवं सोमदत्त-सोमदेवावन्दिताम् ॥ १६ ॥ तौ साधुसिंहौ सहतः स्म शय्या-परीषहं यद्धदहार्यधैयौं । तथा विषह्यो मुनिभिः स सर्वैः, शमामृतक्षीरपयोधिकल्पैः॥
इति श्रीमुद्रित-उत्तराध्ययनवृत्तित उद्धृता सोमदत्त-सोमदेवर्षिकथा संपूर्णा.
॥६५॥
For Private and Personal Use Only