________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ॥९॥ ध्यायन्निति यतिमौंलिं, मनश्चाकम्पयन्नहि । सहित्वा चोपसगै तं, परलोकमसाधयत् ॥ १० ॥ नैषेधिक्याः परीषहः, श्रीमुनिराजेन यथाऽमुनाघिसेहे । सकलैरपि साधुभिस्तथाऽसौ, सहनीयो महनीयपादपः॥११॥
इति श्रीमुद्रित-उत्तराध्ययनवृत्तितः उद्धृता
श्री कुरुदत्तमहर्षिकथा संपूर्णा.
४२ शय्यापरिषहे सोमदत्त-सोमदेवर्षिकथा बभूव पूर्यां कौशाम्ब्या, यज्ञदत्ताभिधो द्विजः । तस्याभूतां सोमदत्त-सोमदेवाभिधौ सुतौ ॥१॥ सोमभूतिमुनेः पार्श्व, तौ द्वावपि महाशयौ । प्राब्राजिष्टां भवोद्विग्ना-चभूतां च बहुश्रुतौ ॥ २॥ अन्यदा स्वजनान् द्रष्टुं, तौ कौशाम्बीमुपेयतुः । स्वजनास्तु तदाऽवन्त्यां, गत्वाऽभूवन स्थितास्तयोः ॥३॥ ततस्तावप्यचलता-मभिमालवकं मुनी । पिबन्ति तत्र देशे च, मयं केचिद्विजा अपि ॥४॥ तत्र ब्राह्मणगेहेषु, भिक्षार्थ गतयोस्तयोः । द्रव्येणान्येन संयोज्य, मद्यं विप्रस्त्रियो ददुः ॥५॥ अन्ये त्वाहुर्ददे ताभि-मद्यमेव यथास्थितम् । तद्विशेषमजानन्ता-वपातां तच्च तावपि ॥ ६ ॥ वपुर्धमादिना सीधु, पीतं ज्ञात्वाथ तौ मुनी । जाताऽनुतापो निष्पापो, मिथो व्यमृशतामिति ॥ ७॥
發驗器聽器聽聽器聽聽器器端器樂器器鉴錄器器端器路端聯發
For Private and Personal Use Only