________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
व: ॥६४॥
गुरुदत्तमहर्षिकथा
梁器梁端蒂諾諾議審議審議器器誘器带器蹤器燃
इति विषय स दंशपरीषह, श्रमणभद्रमुनिस्त्रिदशोऽभवत् । तदपरैरपि साधुवरैरयं, जिनवचो निपुणैः परिषह्यताम् ॥१४॥
इति श्रीमुद्रित-उत्तराध्ययनवृत्तितः उद्धता
श्रमणभद्रमुनिकथा संपूर्णा.
४१ नैषेधिकीपरीषहे कुरुदत्तमहर्षिकथा अभृत्पुरे गजपुरे, कुरुदत्तसुताभिधः । महेभ्यपुत्रो महता, गुणानामेकमास्पदम् ॥ १॥ स संविनो गुरूपान्ते, प्रव्रज्याधीत्य च श्रुतं । प्रतिपेदेऽन्यदैकाकि-विहारप्रतिमा सुधीः ॥२॥ विहरनेकदा सोऽथ, साकेतनगरान्तिके । तस्थौ प्रतिमया तुर्य-पौरुष्यां धैर्यमन्दरः॥३॥ ततश्च गोधनं हत्वा, चौरा ग्रामात्कुतश्चन । कुरुदत्तमुतस्यर्षेः, पार्श्वस्थेनाऽध्वना ययुः॥४॥ साधुपार्श्वमथाऽभ्येयु-गोधनान्वेषका अपि । द्वौ मागौं तत्र दृष्ट्वा ते, पप्रच्छुश्चेति तं मुनि ॥५॥ ब्रूहि साधो ! पथा केन, जग्मुश्वौराः सगोधनाः । तच्छ्रुत्वापि मुनिस्तेषां, न ददौ किञ्चिदुत्तरं ॥ ६ ॥ ततस्ते कुपिता वारि-क्लिनामादाय मृत्तिकां । मौलौ तस्य मुनेः पाली, बबन्धुर्दुष्टचेतसः ॥७॥ तत्र क्षिप्त्वा चिताङ्गारान् , ययुस्ते क्रोधविह्वलाः । मुनिस्तु तेर्बलन्मौलि-रप्येवं हृद्यचिन्तयत् ॥ ८॥ 'सह कलेवर ! खेदमचिन्तयन् , स्ववशता हि पुनस्तव दुर्लभा ।
॥६४॥
For Private and Personal Use Only