________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः
साधुचतुष्क
कथा
॥६॥
हिमत्तौं तत्र वैभार-गिरेस्ते मुनयः पुरे । आहारार्थ समाजग्मुः, प्रहरेऽवस्तृतीयके ॥ ११ ॥ कृताहाराश्च ते सर्वे, गन्तुं वैभारभूधरम् । पृथग पृथग न्यवर्त्तन्त, पुरमध्यान्महर्षयः ॥ १२ ॥ वैभाराद्रिगुफाद्वारे, प्राप्तस्यैकस्य तेष्वथ । द्वितीयस्य पुरोद्याने, तृतीयस्य तदन्तिके ॥ १३ ।। तुर्यस्य तु पुरोपान्ते, चतुर्थः प्रहरोऽभवत् । कायोत्सगै ततः कृत्वा, ते तत्रैवावतस्थिरे ॥ १४ ॥ (युग्मम् ) तेष्वद्रिकन्दराद्वार-संस्थितस्य तपस्विनः । उच्चैः स्थित्वादलग-च्छीतमत्यन्तदारुणम् ॥ १५ ॥ पतत्तहिनसम्पर्क-शीतलैः शैलमारुतैः । कायश्चकम्पे तस्योच्चै-न किश्चिदपि मानसम् ॥ १६ ॥ स शीतवेदनां सम्यक, सहमानो महामुनिः । यामिन्याः प्रथमे यामे, परलोकमसाधयत् ॥ १७ ॥ उद्यानस्थस्य नीचैस्त्वा-च्छीतमल्पं किमप्यभूत् । ततो रजन्याः प्रहरे, द्वितीये स व्यपद्यत ॥ १८॥ उद्यानपार्थवृत्तेस्तु, वृक्षाद्याश्रयतोऽलगत् । शीतमल्पं ततो यामे, स विपन्नस्तृतीयके ।। १९ ॥ आसीदल्पतरं शीतं, तुर्यस्य नगरोष्मणा । ततः स प्रहरे तुर्य, परासुत्वमगान्मुनिः ॥२०॥
चत्वारोऽपि प्राज्यधैर्या मुनीन्द्राः, स्वर्ग प्रापुस्ते विषोति शीतम् । इत्थं सर्वैः साधुभिस्त्यक्तकाम--स्तत्सोढव्यं मुक्तिसंयुक्तिकामैः ॥ २१ ॥
इति श्रीमुद्रित-उत्तराध्ययनवृत्तित उद्ता
साधुचतुष्ककथा सम्पूर्णा.
答錄器端器端端器端端端端器端端端藥聯號跳號號號樂器端染
॥६॥
For Private and Personal Use Only