SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथागवः चण्डरुद्राचार्यकथा 崇盛幾號號號晓嚴密監聽罷跳跳跳跳端器蒸笼號器踏號跳號藥 नर्मणापि मया लब्धं, रक्षणीयं ततो व्रतम् । जहाति घुमणि को हि, विनायासमुपस्थितम् ॥१८॥ ध्यात्वेति भावसाधुत्वं, स सुधीः प्रत्यपद्यत । यथास्थानं ततो जग्मु-स्तद्वयस्या विषादिनः ॥ १९ ॥ विनेयोऽथावदत्यरिं, भगवन् ! बंधवो मम । श्रामण्य मोचयिष्यंति, तद्यामोऽन्यत्र कुत्रचित् ॥ २० ॥ गच्छो महानसौ गच्छन् , प्रच्छन्नमपि यजनैः । ज्ञायते तद् द्वयोरेवा-ऽऽवयोर्गमनमर्हति ॥ २१ ॥ सूरिः प्रोवाच यद्येवं, तदाऽध्वानं विलोकय । यथा रजन्यां गच्छामः, सोऽग्यालोक्य तमाययौ ।। २२ ॥ प्रतस्थेऽथ निशीथिन्यां, मूरितनशिष्ययुक् । पुरो याहीति गुरुणा, चोक्तः शिष्यो ययौ पुरः ॥ २३ ।। अपश्यन्निशि वृद्धत्वात् , स्थाणुना स्खलितो गुरुः । वेदनाविह्वलो जज्ञे, ज्वलद्रोपभराकुलः ॥ २४ ॥ हा दुष्टशिष्य ! सन्मार्गों, न व्यलोकीति विब्रुवन् ! दण्डेन शिष्यं शिरसि, कृतलोचे जघान सः ॥ २५ ॥ तत्प्रहारस्फुटन्मौलि-निगच्छद्रधिरोऽपि सः । न व्यब्रवीनाप्यकुप्यत् , प्रत्युतैवमचिंतयत् ।। २६ ॥ स्वगच्छमध्ये ससुखं, तिष्ठंतोऽमी महाशयाः । अधन्येन मया दुःख-भाजन विहिता हहा ! ॥ २७ ॥ आजन्मसौख्यदाः शिष्या, गुरोः स्युः केपि धीधनाः । आद्य एव दिनेऽहं तु, जातोऽसातकरो गुरोः ।। २८ ॥ स्थावादिना गुरोः पीडा, माभूद्भूयोऽपि भूयसी । ध्यायन्निति प्रयत्नेन, स चचाल शनैः शनैः ॥ २९ ॥ तस्यैवं व्रजतः शुद्धा-शयस्य समतानिधेः । महात्मनः समुत्पेदे, निशायामेव केवलम् ॥ ३०॥ अथ प्रभाते संजाते-ऽभ्युदिते च दिवाकरे । सूरिणा ददृशे शिष्यो, रुधिरालिप्तमस्तकः ॥३१॥ ततः शांतरसाचांत-स्वांतः सूरिचिंतयत् । अहो ! नवीनशिष्यस्या-ऽप्यमुष्य शांतिरुत्तमा ॥३२॥ 张继聪晓验器端游能器鉴藏晓晓聽器聽器端帶路黨继器踏染 For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy