SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 聯強聯端端张继继器端端暴露幾號幾號晓晓张继樂器器装袋 अन्येद्यविश्वकुद्राक-लुण्टाकभटपेटकेः । स कुशस्थलनामानं, ग्रामं लुण्टयितुं ययौ ॥ ६॥ ब्राह्मणो देवशमति, तत्र दारिथविद्रुतः । अवकेशीफलमिव, क्षीरानं याचितो कैः॥७॥ पर्यट्य सकले ग्रामे, क्वापि क्वापि स तन्दुलान् । क्यापि क्यापि पयोऽभ्यर्थ्य, परमान्नमपीपचत् ॥ ८॥ नद्यां स्नातुं ययावेष, यावत्तावत् तदोकसि । ते क्रूरतस्कराः पेतु-दैवं दुर्बलघातकम् ॥९॥ तेषामेकतमो दस्यु-रपश्यत्तस्य पायसम् । क्षुधातुरः प्रेत इव, तदादाय पलायितः ॥ १० आच्छिद्यमाने तस्मिंस्तु, पायसे जीवितव्यवत् । क्रन्दन्ति डिम्भरूपाणि, गत्वा पितरमृचिरे ॥ ११ ॥ व्यात्ताननानामस्माकं, दस्युचुन्देन पायसम् । जहे प्रसारितदृशा-मनिलेनेव कजलम् ॥१२ ।। तदाकर्ण्य वचो विप्रः, क्षिप्रं दीपः क्रुदग्निना । यमदूत इवादाय, परिधं पर्यधावत ॥ १३ ॥ सरोषराक्षसावेशा-समुत्पादितदोर्बलः । हन्तुं प्रववृते दस्यून , परिघेण पनिव ॥ १४ ॥ तेनावकरवत्साक्षा-क्षिप्यमाणानवेक्ष्य तान् । वित्रस्यतस्तिरस्कुर्वन् , दधावे तस्करेश्वरः ॥ १५ ॥ तस्यापि धावतो दैवा-गतिविघ्नविधायिनी । निरोधुं दुर्गतिमिव, मार्गे गौरन्तरेऽभवत् ।। १६ ॥ करालकरवालैक-प्रहारेण वराकिकाम् । जघान नृजघन्यस्तां, चण्डाल इव निघृणः ॥१७॥ तस्याभ्यापततो रोरद्विजातेः स शिरो भुवि । पनसद्रोः फलमिवा-पातयत्खङ्गयष्टिना ॥१८॥ आः पाप निष्कृप कृतं, किमेतदिति वादिनी । बाला मासवती तं चा-भ्यगात् द्विजकुटुम्बिनी ॥१९॥ तस्या वृक इव च्छाग्या, गुर्विण्याः सोऽतिदारुणः । कुष्माण्डदारमुदरं, दारयित्वा द्विधाकरोत् ॥२०॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy