SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथा र्णवः ॥५३॥ * दृढपहारी कथा कर्मनिर्मूलनोपायान् , श्रावकप्रतिमास्ततः । एकादशापि शिश्राय, कामदेवः क्रमेण ताः ॥ ६३ ॥ सोऽथ सैलेखनां कृत्वा, प्रपेदेऽनशनव्रतम् । परं समाधिमापन्नः, कालधर्ममुपाययौ ॥ ६४ ॥ सोऽरुणामे विमानेऽभूद्, चतुष्पल्यस्थितिः सुरः । च्युत्वा ततो विदेहेषत्पद्य सिद्धि ब्रजिष्यति ॥६५॥ यथोपसर्गेऽपि निसर्गधैर्यात् , स कामदेवो व्रततत्परः सन् । लाध्योऽभवत् तीर्थकृतां तथाऽन्ये-ऽप्येवंविधा धन्यतमाः पुमांसः ।। ६६ ॥ इति श्रीमुद्रित-योगशास्त्रवृत्तितः उद्धता कामदेवश्रावककथा संपूर्णा. ३३ जिनवचनभावनायां दृढप्रहारीकथा. कस्मिश्चिन्नगरे कश्चिदा-सीद्विजातिरुद्भटः । प्रजासु कर्तुमन्यायान् , प्रावर्त्तत स पापधीः ॥१॥ आरक्षपुरुषैरेष, ततो निर्वासितः पुरात् । व्याधहस्तमिव श्येन-चौरपल्ली जगाम च ॥ २ ॥ नृशंसचरितैस्तै-रात्मनस्तुल्य इत्यसौ । चौरसेनाधिपतिना, पुत्रत्वेनान्वमन्यत ॥ ३ ॥ चौरसेनापतौ तस्मिन्न-वसानमुपेयुषि । तत्पुत्र इति तत्स्थाने, स बभूव महाभुजः ॥४॥ निष्कृपं प्रहरत्येष, सर्वेषां प्राणिनां यतः । ततो दृढप्रहारीति, नाम्ना निजगदे जनैः॥ ५॥ YE REPRENERREDEEMBERee ॥५३॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy