________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेन कथाणेवः. ॥५२॥
कामदेवश्रावककथा
अप्रार्थितपार्थक ! रे !, किमारब्धमिदं त्वया । किं स्वर्गमपवर्ग वा, वराक ! त्वमपीच्छसि ? ॥३३॥ मुञ्चारब्धमिदं नो चेद-नेन निशितासिना । तरोखि फलं स्कन्धात् , पातयिष्यामि ते शिरः ॥ ३४॥ तर्जयत्यपि तत्रैवं, समाधेर्न चचाल सः । शरभः शैरिभारावैः, किं क्षुभ्यति कदाचन ॥३५ ।। कामदेवः शुभध्यानाद्, न चचाल यदा तदा । व्याजहार तथैवायं, द्वित्रिविदशपांसनः ॥ ३६॥ तत्राप्यक्षुभ्यतः सोऽस्य, क्षोभायभं वपुर्व्यधात् । स्वशक्त्यन्तमनालोक्य, विरमन्ति खला न हि ॥३७॥ सोऽधत्त विग्रहं तुझं, सजलाम्भोदसोदरम् । सर्वतोऽप्येत्य मिथ्यात्वं, राशीभूतमिवैकतः।। ३८ ॥ स दीर्घदारुणाकार, विषाणद्वन्द्वमुन्नतम् । धारयामास कीनाश-भुजदण्डविडम्बकम् ॥ ३९ ॥ किञ्चिदाकुश्चितां शुण्डा, कालपाशामिचोहहन् । कामदेवं जगादेव, देवः कूटैकदैवतम् ॥ ४० ॥ मायाविन् ! मुच्यतां माया, सुखं तिष्ठ मदाझ्या । पाखडगुरुणा केन, त्वमस्येवं विमोहितः ? ॥ ४१॥ न चेद् मुश्चस्य, धर्म, शुण्डादण्डेन तद् द्रुतम् । ऋक्ष्यामि त्वा मितः स्थानाद् , नेष्यामि च नमोऽङ्गणे ॥४२॥ व्योम्नः पतन्तं दन्ताभ्यां, प्रेययिष्यामि चान्तरा । अवनम्य ततस्ताभ्यां, दारयिष्यामि दारुवत् ॥ ४३ ॥ पादैः कर्दममर्दै च, त्वां मर्दिष्यामि निर्दयम् । एकपीण्डीकरिष्यामि, तिलपिष्टिमिव क्षणात् ॥ ४४ ॥ उन्मत्तस्येव तस्यैवं, घोरं व्याहरतोऽपि हि । नोत्तरं कामदेवोऽदाद्, ध्यानसंलीनमानसः ॥ ४५ ॥ असक्षुभितमीक्षित्वा, कामदेवं दृढाशयम् । द्विस्त्रिश्चतुरभाषिष्ट, तथैव स दुराशयः ॥ ४६॥ ततोऽप्यभीतं ते प्रेक्ष्य, शुण्डादण्डेन सोऽग्रहीत् । व्योमन्युच्छालयामास, प्रती येष च पूलवत् ॥ ४७ ॥
॥५२॥
For Private and Personal Use Only