________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
कामदेवश्राबककथा
पर्णवः
॥५१॥
अभूद् गृहपतिस्तस्यां, कामदेवाभिधः सुधीः । आश्रयोऽनेकलोकानां, महातरुरिवाध्वनि ॥ ३ ॥ लक्ष्मीरिव स्थिरीभूता, रूपलावण्यशालिनी । अभूद् भद्राकृतिर्भद्रा, नाम तस्य सधर्मिणी ॥४॥ निधौ षट् स्वर्णकोट्यः, पड़ वृद्धौ पड़ व्यवहारगाः । बजाः षट् चास्य दश-गोसहस्रमितयोऽभवन् ॥ ५॥ तदा च विहरन्नुवी, तत्रो/मुखमण्डने । पुण्यभद्राभिधोद्याने, श्रीवीरः समवासरत् ॥ ६॥ कामदेवोऽथ पादाभ्यां, भगवन्तमुपागमत् । शुश्राव च श्रोत्रसुधां, स्वामिनो धर्मदेशनाम् ॥ ७॥ कामदेवस्ततो देव-नरासुरगुरोः पुरः । प्रपेदे द्वादशविधं, गृहिधर्म विशुद्धधीः ॥८॥ प्रत्याख्यात स विना भद्रां, स्त्रीबजान् पव्रजी विना । निधौ वृद्धौ व्यवहारे, पटू षट् कोटीविना वसु ॥९॥ हलपञ्चशती मुक्त्वा-प्रत्याक्षीत् क्षेत्राण्यनांसि तु । दिग्यात्रिकाणि, वोदृणि, पञ्च पश्च शतान्यते ॥१०॥ दिग्यात्रिकाणि चत्वारि, चत्वारि, प्रवहन्ति च । विहाय वनान्येष, प्रत्याख्यद् वनान्यपि ॥११॥ विनैकां गन्धकापायीं, स तत्याजाङ्गमार्जनम् । दन्तधावनमप्याा --मपास्य मधुयष्टिकाम् ॥१२॥ ऋते च क्षीरामलकात् , फलान्यन्यानि सोऽमुचत् । अभ्यङ्गं च विना तैले, सहस्रशतपाकिमे ॥१३॥ विना सुगन्धिगन्धाढथमुद्वर्तनकमत्यजत् । विनाष्टावौष्ट्रिकानम्भस्कुम्भान् मजनकर्म च ॥ १४ ॥ ऋते च क्षौमयुगलाद्, वस्त्रं सर्वमवर्जयत् । चन्दनागुरुघुसृणा-न्यपास्यान्यद् विलेपनम् ॥ १५ ॥ जातीस्रजं च पद्म च, विना कुसुममत्यजत् । कर्णिका नाममुद्रां च, विहायाभरणान्पपि ॥ १६ ॥ तरुष्कागुरुधूपेभ्य, ऋते धूपविधि जहौ । घृतपूरात् खण्डखाद्या-दन्यद् भक्ष्यमवर्जयत् ॥ १७ ॥
॥५१॥
For Private and Personal Use Only