________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
स यथा धारयामास, शस्त्राणि त्राणहेतवे । तीक्ष्णानि शिक्षावशतो, व्रतान्यपि तथा सुधीः ॥ ३ ॥ माघमासे विभावर्थी, सोऽन्यदा वासवेश्मनि । आदीपज्वलनं स्थास्या - मीति सामायिके स्थितः ॥ ४ ॥ तच्छय्यापालिका ध्वान्तं, स्वामिनो मा स्म भूदिति । याते प्रास्यामिनीयामे, प्रदीपे तैलमक्षिपत् ॥ ५ ॥ ते यामे द्वितीयस्मिन्न-पि सा भक्तमानिनी । जाग्रती दीपके क्षीण-तैले तैलं न्यधात्पुनः ॥ ६ त्रियामायास्तृतीयस्मिन्नपि यामे व्यतीयुषि । मल्लिकायां प्रदीपस्य तैलं चिक्षेप सा पुनः ॥ ७ ॥ विभातायां विभावर्यामवसानमथासदत् । श्रमोत्पन्नव्यथाक्लान्तो, राजा स इव दीपकः ॥ ८ ॥ सामायिकं समधिगम्य निहत्य कर्म, चन्द्रावतंसनृपतिस्त्रिदिवं ततोऽगात् । सामायिकतजुषो गृहिणोऽपि सद्यः क्षीयेत कर्म निचितं सुगतिर्भवेच्च ॥ ९ ॥ इति श्रीमुद्रित - योगशास्त्रवृत्तित उद्धृता चन्द्रावतंसनृपकथा सम्पूर्णा. ३२ उपसर्गसहने कामदेव श्रावककथा.
अनुगङ्गं पतद्वंश-श्रेणीभिरिव चारुभिः । चैत्यध्वजै राजमाना, चम्पेत्यस्ति महापुरी ॥ १ ॥ भोगिभोगायतभुज-स्तम्भः कुलगृहं श्रियः । जितशत्रुरिति नाम्ना, तस्यामासीद् महीपतिः ॥ २ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir