________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चन्द्रावतंसनृपकथा
॥ ५० ॥
गत्वोचे श्रेणिकं सोऽस्मि, राजा चेन्न ऋषिस्तदा । श्रीवीरोऽन्तिमराजर्षि शशंसोदायनं यतः ॥२०॥ श्रीवीरं स्वामिनं प्राप्य, प्राप्य त्वत्पुत्रतामपि । नो छेत्स्ये भवदुःखं चे-मत्तः कोऽन्योऽधमस्ततः ॥२१॥ नाम्नाऽहमभयस्तात ! सभयोऽस्मि भवाभृशम् । भुवनाभयदं वीरं, तच्छ्यामि समादिश ॥ २२ ॥ तदलं मम राज्येना-भिमानसुखहेतुना । यतः सन्तोषसाराणि, सौख्यान्याहुमहर्षयः ।। २३:।। निर्बन्धाद्ग्राह्यमाणोऽपि, न यदा राज्यमग्रहीत् । तदाऽभयो बतायानु--जक्षे राज्ञा प्रमोदतः ।। २४ ॥ राज्यं तृणमिव त्यक्त्वा, सन्तोषसुखभागसौ । दीक्षां चरमतीर्थेश-वीरपादान्तिकेऽग्रहीत् ॥ २५॥ संतोषमेवमभयः सुखदं दधानः, सर्वार्थसिद्धिसुरधाम जगाम मृत्वा । सन्तोषमेवमपरोऽप्यवलम्बमान-स्तान्युत्तरोत्तरसुखानि नरो लभेत ।। २६ ॥
इति श्रीमुद्रित-योगशास्त्रवृत्तितः उद्धता
__ अभयकुमारकथा संपूर्णा.
३१ सामायिकव्रतोपरि चन्द्रावतंसनृपकथा अस्ति साकेतनगरं, श्रीसङ्केतनिकेतनम् । हसितेन्द्रपुरश्रीकं, सितार्हच्चैत्यकेतनैः॥१॥ तत्र लोकगानन्दो, द्वितीय इव चन्द्रमाः । चन्द्रावतंसो राजा--ऽसीदवतंस इवावनेः ॥२॥
॥५०॥
For Private and Personal Use Only