________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
能器端端端器端柴柴榮藥鱗器继器端端器端端端樂際端端盖
दिनमेकं प्रतीक्षध्य-मूवं यत्प्रतिभाति वः । तद्विधत्तेत्ययाचिष्ट, प्रणम्य श्रेणिकात्मजः ॥ ५॥ सोऽथ राजकुलात्कृष्टा, रत्नकोटित्रयीं बहिः । दास्याम्येतामेव लोकाः, पटहेनेत्यघोषयत् ॥६॥ ततश्चेयुर्जनाः सर्वे--ऽप्यवोचदभयोऽप्यदः । जलाग्निस्त्रीवर्जको य-स्तस्य रत्नोच्चयोऽस्त्वयम् ॥ ७ ॥ लोकोत्तरमिदं लोकः, स्वामिन् ! किं कमीश्वरः ? इति तेष्वाभाषमाणे--वभयोऽपीत्यभाषत ।। ८॥ यदि वो नेदृशः कश्चि-द्रत्नकोटीत्रयं ततः । जलाग्निस्त्रीमुचः काष्ठ-भारिणोऽस्तु महामुनेः॥९॥ सम्यगीदृगय साधुः, पात्रं दानस्य युज्यते । मुघाऽसौ जहसेऽस्माभि-रिति तैर्जगदेऽभयः ॥१०॥ अस्य भोपहासादि, न कर्त्तव्यमतः परम् । आदिष्टमभयेनैवं, प्रतिपद्य ययुर्जनाः ॥ ११ ॥ एवं बुद्धिमहाम्भोधिः, पितृभक्तिपरोऽभयः । निरीहो धर्मसंसक्तो, राज्यमन्वशिषत्पितुः ॥ १२॥ वर्तमान स्वयं धर्म, स प्रजा अप्यवर्त्तयन् । प्रजानां च पशूनां च, गोपायत्ताः प्रवृत्तयः ॥१३॥ राजा चक्रे जजागार, यथा द्वादशधा स्थिते । तथा श्रावकधर्म-सावप्रमद्वरमानसः ॥१४॥ बहिरङ्गान् यथाऽजैषीद्-दुर्जयानपि विद्विषः । अन्तरङ्गानपि तथा, स लोकद्वयसाधकः ॥१५॥ तमूचे श्रेणिकोऽन्येद्यु-र्वत्स ! राज्यं त्वमाश्रय । अहं श्रयिष्ये श्रीवीर-शुश्रूषासुखमन्वहम् ।। १६॥ पित्राज्ञाभङ्गसंसार-भीरुरित्यभयोब्रवीत् । यदादिशत तत्साधु, प्रतीक्षध्वं क्षणं परम् ॥ १७॥ इतश्च भगवान् वीरः, प्रव्राज्योदायनं नृपम् । मरुमण्डलतस्तत्राभ्यागत्य समवासरत् ॥ १८ ॥ ततो गत्वाऽभयो नत्वा, पप्रच्छ चरमं जिनम् । राजर्षिः कोऽन्तिमोऽथाख्यत्तत्रैवोदायनं प्रभुः ॥ १९॥
继器器器器躁幾骤號發器凝器继器蹤器端暴躁貓器器骤鉴赛
For Private and Personal Use Only