________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा-|
णेवः ॥४९॥
अभयकुमार
कथा
经验器警验器端端端端盖器錄器錄器路器跳幾號幾器樂器
नासौ सदुपदेशानां, जवासक इवाम्भसाम् । योग्य इत्यामृशन् दूतोऽ–प्यगात् स्वस्वामिनोऽन्तिकम् ॥२२॥ नन्दोऽप्यन्यायपापोत्थैर्वेदनादानदारुणैः । रोगैरिहापि संप्राप्तः, परमाधार्मिकरिव ॥ २३ ॥ वेदनाभिर्दारुणाभिः, पीड्यमानो यथा यथा । नन्दश्चक्रन्द लोकोऽभू-जातानन्दस्तथा तथा ॥ २४॥ पच्यमानो भृज्यमानो, दह्यमान इव व्यथाम् । अवाप नन्दः स्तोकं हि, सर्व तादृक्षपाप्मनः ॥२५॥
ये भूतले विनिहिता गिरिवच्च कूटीभूताश्च येऽद्य मम काञ्चनराशयस्ते । कस्य स्युरित्यभिगृणन्न वितृप्त एव, मृत्वा निरत्तभवदुःखमवाप नन्दः ॥ २६ ।।
इति श्रीमुद्रित-योगशास्त्रवृत्तितः उद्धता
नन्दनृपकथा संपूर्णा.
३० सन्तोषोपरि अभयकुमारकथा अन्यदा गणभृद्देव-सुधर्मस्वामिनोऽन्तिके । प्रव्रज्यामग्रहीत्कोऽपि, विरक्तः काष्ठभारिकः ॥१॥ विहरन स पुरे पौरैः, पूर्वावस्थाऽनुवादिभिः । अभय॑तोपाहस्य-तागीतापि पदे पदे ॥ २ ॥ नावज्ञां सोढुमीशोत्र, विहरामि तदन्यतः । इति व्यज्ञपयत् स श्री-सुधर्मस्वामिनं ततः ॥३॥ सुधर्मस्वामिनाऽन्यत्र, विहारक्रमहेतवे । आपृच्छयताभयः पृच्छन , ज्ञापितस्तच्च कारणम् ॥ ४ ॥
路器跳號號號张器器繼器器器器樂器鑑聽器端端端端端验
॥४९॥
For Private and Personal Use Only