________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः ॥४८॥
नन्दराज कथा
弟弟華盛柴柴柴盛藥器鉴条路器婆婆密密密密密密亲密亲条:
असौ जगदमित्रस्य मित्रस्येवोन्मनास्ततः । दुर्भिक्षस्यैष्यतो मार्गमीक्षाश्चक्रे दिने दिने ॥९॥ अथ वर्षाप्रवेशेऽपि ववर्षोपेत्य सर्वतः । धारासारैर्घनस्तस्य हृदयं दारयन्निव ॥ १० ॥
गोधूममुद्गकलमाश्चणका मकुष्टा, माषास्तिलास्तदपरेऽपि कणा विनश्य । यास्यन्ति संपति हहेति स तैरतृप्तो, हृत्स्फोटजातमरणानरकं प्रपेदे ॥ ११॥
इति श्रीमुद्रित-योगशास्त्रवृत्तितः उद्धता
तिलकश्रेष्ठिकथा संपूर्णा.
२९ सुवर्णसंग्रहकार नन्दराजकथा प्राच्या महेन्द्रनगरीमतिबिम्बमिवोच्चकैः । आख्यया पाटलीपुत्रमित्यस्ति प्रवरं पुरम् ॥१॥ आसीत्तत्रातिसुत्रामा, शत्रुवर्गविसत्रणे । त्रिखण्डवसुधाधीशो, नन्दो नाम नरेश्वरः ॥२॥ सोऽकराणां करं चक्रे, सकराणां महाकरम् । महाकराणामपि च, किञ्चिच्चक्रे करान्तरम् ॥३॥ यं कञ्चिदोषमुत्पाद्य, धनिभ्यो धनमग्रहीत् । छलं वहति भूपानां, हल नेति नयं वदन ॥४॥ सर्वोपायैर्धनं लोका-निष्कपः स उपाददे । अपामब्धिर्नृपोर्थानां, पात्रं नान्य इति ब्रुवन् ॥५॥ तथाऽर्थ सोऽग्रहील्लोका-श्लोकोऽभूनिधनो यथा । भूमापूर्णायुचीर्णायां न खलु प्राप्यते तृणम् ॥६॥
॥४८॥
For Private and Personal Use Only