________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
器搬搬密際樂器张密密號盤带带张紧器樂崇毕裝
इत्थं प्रतिक्रमणमप्वनणुप्रमाद-मुत्सृज्य भव्यनिवहाः ! क्रियतां भवद्भिः। यस्मिन्कृतेऽय भवभारवियुक शरीरी, भारप्रमुक्त इव भारवहो लघुः स्यात् ॥ २६ ॥
इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तित उद्धता
सज्जनदंडनायककथा संपूर्णा.
२८ धान्यसंग्रहोपरि तिलकश्रेष्ठीकथा श्रेष्ठयासीत्तिलको नाम, पुरेऽचलपुरे पुरा । असौ पुरेषु ग्रामेषु, चाकरोद्धान्यसंग्रहम् ॥१॥ माषमुद्गतिलबीहिगोधूमचणकादिकम् । ददौ साड़िकया धान्यं, काले सार्द्ध च सोऽग्रहीत् ॥२॥ धान्यर्धान्य धनैर्धान्यं, धान्यं जीवधनैरपि । उपायैश्चाग्रहीद्धान्यं, ध्यायन् धान्यं स तत्ववत् ॥३॥ दुर्भिक्षकाले धान्येभ्यः, प्रत्युपात्तैर्महाधनैः । बभार परितो धान्यै-खिासौ धान्यकोष्ठकान् ॥४॥ पुनः सुभिक्षे धान्यं स, क्रीत्वा क्रीत्वा समग्रहीत् । लब्धास्वादः पुमान् यत्र, तत्रासक्तिं न मुश्चति ॥५॥ कीटकोटिव, नैपोऽ-जीगणत् कणसंग्रहे । पीडां पञ्चेन्द्रियाणा-मप्यतिभाराधिरोपणात् ॥ ६॥ नैमित्तः कोऽपि तस्याख्यद्-भाविदुर्भिक्षमैषमः । सर्वस्वेनाथ सोऽक्रीणाकणान् पुनरप्तिकः ॥७॥ वृद्धयाऽपि द्रव्यमाकृष्याग्रहीद्धान्यमनेकथा । स्थानाभावे गृहेऽक्षप्सीत् , किं न कुर्वीत लोभवान् ॥ ८॥
亲亲张黎张举罪架螺柴柴柴$$崇奉佛樂器来收
For Private and Personal Use Only